पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
कर्मपद्धतिः

 व्या.. --सर्वथाऽपि भाव्यभाविनोरावश्यकत्वं कर्मवशा- देवेत्याह - मज्जत्विति । अम्भसि । मज्जतु मग्नो भवतु - जलस्तम्भा- दिनेति भावः । मेरुशिखरं। यातु गच्छतु - योगानुसंधानादिनेति भावः। आहवे युद्धे । शत्रून जयतु। वाणिज्यं क्रयविक्रयादि। कृषिः कर्षणं - सेवन परिचर्या - दौत्यादिनेतिभावः - ते कृषिसेवने च - तथा सकलाः समस्ताः । विद्याः वेदवेदाङ्गादयः ।।

"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विधा ह्येताश्चतुर्दश ॥"

इत्येताश्चतुर्दशविद्याः । कला इतिहासागमप्रभृतीश्चतुष्षष्ठि कळाश्च शिक्षताम् अभ्यस्यतु। तथा । परमुत्कृष्टं। प्रयत्नं पादुकासिद्ध्यात्मकं । कृत्वा खगवत्खगेन तुल्यं । विपुलमाकाशं प्रयातु। तथाऽपि कर्म- वशतोधर्माधर्मात्मककर्मवशादिहास्मिन् लोके। अभाव्यमभावि फलं न भवति। तथा भाव्यस्यावश्यम्भाविनः फलस्य - नाशः कुतः। तस्य ब्रह्मणाऽपि निवारयितुमशक्यत्वात् - 'यद्भावि तद्भवत्येव यदभावि न तद्भवे’दिति न्यायादिति भावः। अत्राम्भोमज्जनादीनां चतुष्पष्टि कळास्वेवान्तर्भूतत्वमवगन्तव्यम्। ताश्च कळामदीयशृङ्गार- शृङ्गाटके संख्यातास्तत्रैव द्रष्टव्या इतीहोपरम्यते ॥

ब्बने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा।
सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥

 ध्या.-अतिसंकटस्थस्यापि प्राचीनपुण्यसद्भा तु न क्षति- रित्याह - व्न इति.-अयं तु स्पष्टोऽर्थः ।