पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ शृङ्गारशतकम् ॥


॥ स्त्रीप्रशंसा ।।

शम्भुस्वयम्भुहरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकर्मदासाः ।
वाचामगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥ १ ॥

 व्या...-शंभ्विति--अत्र खयंभुशब्दस्य शम्भुशब्दवदौणादि- कडप्रत्ययान्तत्वमवगन्तव्यम् - न तु ॐ भुवस्संज्ञान्तरयोः क्वि'बिति 'क्विप्प्रत्ययान्तत्वम् - अन्यथा 'स्वयंभू देवोऽसा' वित्यादाविव दीर्घप्रसङ्गात् । तथाच । येन मकरध्वजेन । शम्भुस्वयम्भुहरयः हर - विरिञ्चिमुरारयः संहारसृष्टिस्थितिकर्तृत्वेन सकलभवनाधीश्वरा अपीति भाव:-हरिणेक्षणानां हरिणवन्मनोहरलोचनानां पार्वती सरस्वती श्रीदे- वीनां। सततम् * 'समो वा हिततयोरिति वचनात् समो मकारस्थ लोपः । गृहे कुम्भदासाः जलकुम्भभारवाहकभृत्याः । अक्रियन्त तासु तादृङ्मोहमुत्पाद्य तथा विधेयीकृता इत्यर्थः - किमुतान्य इति भावः * कृञः कर्मणि लङ् तङ्र - अर्धनारीश्वरत्वाच्छम्भोः । स्वयम्भुवश्च सर- स्वतीनिकेतनीकृतमुखत्वात्। हरेर्वक्षःस्थलस्थापितलक्ष्मीकत्वाच्चैव - मुक्तमित्यवगन्तव्यम्। अत एव । वाचामगोचरमवा्ङ्मानसगोचरं- यश्चरित्रं माहात्म्यम् । तेन विचित्रवत्कृतो विचित्रितः - तस्मै अत्य- न्ताश्चर्यकारकायेत्यर्थः - नि. विस्मयोऽद्भुतमाश्चर्य चित्रमित्यमरः .