पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
शृङ्गारशतके

'भावो हावश्व हेला व माधुर्यं धैर्यमित्यपि ।
लीला विलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम् ।।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।
कुतूहलं च चकितं विहृतं हास इत्यपि ।।
एवं शृङ्गारचेष्टास्स्युरष्टादशविधा मताः.' इति.

ईदृक्साधनसंपन्नानां स्त्रीणां बन्धहेतुत्वं किं वक्तव्यमिति भावः ॥
तथा चैतासां शृङ्गारनायिकानां मध्ये भावलजाभयवत्यो मध्यमाः ।
ईर्ष्याकलह लीलावत्यः प्रौढा श्वेति - विवेकः ।।

' उदयद्यौवना मुग्धा ललाविजितमन्मथा ।
लज्जामन्मथमध्यस्था मध्यमोदितयौवना ।
स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवने'ति ॥
वंशस्थवृत्तम् ।।

भ्रूचातुर्यात् कुञ्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लञ्जितान्ताश्च हासाः।
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणामेतद्भूषणं चायुधं च ।। ३ ।।

 व्या.-उक्तमर्थं प्रकारान्तरेणाह - भूचातुर्यादिति.--- भ्रूवो - श्वातुर्याल्ललिताक्षेपवैचित्य्रात्कुञ्चितानि कुणीकृतान्यक्षीणि येषां ते तथोक्ताः 8 'बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात्वच्'इति वच्। कटाक्षाः अपाङ्गेक्षणानि च। एतेन रेचितभ्रुकुट्याख्यो व्यापारविशेषावुक्तौ । तदुक्तम् ॥