पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
शृङ्गारशतके

इति लुक् - तदपाकरिष्णुः तत्सदृश इत्यर्थः - एतेन पद्मिनीत्वं - सूच्यते - 'काऽपि चाम्पेयगैरी'ति लक्षणात् । वर्णो देहकान्तिश्च । तथा अलिनीनां भृङ्गाइनानां जिष्णुर्जयशीलः - तत्सन्निभ इत्यर्थः * 'ग्लाजिस्थश्चक्रनु'रिति कस्नुप्रत्ययः । कचानां चयः केशपाशश्च । इभकुम्भयोर्विभ्रमहरौ विलासहारिणौ । करिवरशिरः पिण्डकल्पावि-. त्यर्थः । 'कुम्भौ तु शिरसः पिण्डौ इत्यमरः । वक्षोजौ कुछ- कुम्भी ध। गुर्वी दुर्भरा 'वोतो गुणवचना'दिति ङिप् । नितम्बस्थली कटिपश्चाद्भागश्च - नि.- पश्चान्नितम्बः स्वीकट्याः: इत्यमरः * - जानपदे' त्यादिना अकृत्रिमार्थे ङीप् । - हरतीति हारि मनोहरं * पूर्ववण्णिनिः । वाचां । मार्दवं वाङमाधुर्यं मधुरकोमलालापश्चेत्यर्थः । एतत्सर्वं। युवतिषु तरुणीपषु। स्वाभाविकं स्वभावसिद्धं * 'तत आगत' इति ठक् । मण्डनं । तरुणी- नामेतन्नैसर्गिकालंकरणमित्यर्थः॥

 अत्र चन्द्रविकासीत्यादिशब्दाः प्रायशस्सादृश्यवाचकाः।
अत एवोपमालंकारः - तदुक्तमाचार्यदाण्डिना -

 स्पर्धते जयति द्वेष्टि हसतीर्ष्य॑त्यसूयति ।
 तदन्त्यनुबध्नाति तच्छीळति निषेधति ।
 तच्चैवाऽनुकरोतीति शब्दास्सादृश्यवाचकाः'

स्मितं किञ्चिन्मुग्धं सरळतरको दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ।
गतानामारम्भः किसलयितलीलापरिकरः ।
स्पृशन्त्यास्तारुण्यं किमिव हिनं न रम्यं मृगदृशः ॥ ६ ॥