पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
शृङ्गारशतके

 व्या. अथ चक्षुःप्रभृतिषडिन्द्रियाणामत्रैव लोकोत्तरप्रतिनियत विषयान्वर्णयति - द्रष्टव्येष्विति. --~-अत्र प्रश्नोत्तरमालिकयाऽन्यः कार्य:. द्रष्टुं योग्यानि द्रष्टव्यानि - तेषु दर्शनीयेषु वस्तुपु । योग्यार्थे । तव्यप्रत्ययः । उत्तमं श्रेष्ठं वस्तु किमिति प्रश्नः । प्रेमप्रसन्नं अनु- रागविकसितं प्रेमदायीत्यर्थः 'द्रवीभूतं मनो यत्र दर्शन प्रेमदायिनि ' इति लक्षणात्.' मृगदृशस्तरुण्या । मुखं वदनभिर्थः - एवमुत्तर - त्रापि - चक्षुःप्रीतिकरत्वादिति भावः । घ्रातव्येषु आघ्रातव्येषु किमु - त्तममिति प्रश्नः । तदास्यपवन - स्तस्याः तरुण्याः - आस्यपवनो - मुखमारुतः - तस्यैव घ्राणतर्पणत्वादिति भावः । यद्यपि घ्राणेन्द्रि - यविषयो गन्धः न तु पवन: - तथाऽपि तस्याः पद्मनी जातित्वा- त्तदास्यपवने तस्य सङ्कमणात् 'वीणाः श्रूयन्ते - मेर्यः श्रूयन्ते - पुष्पाण्याघ्रायन्ते' इत्यादिवद्गन्धसम्बन्धिनि पवने तद्धर्मस्योपरि . तत्वान्न विरोधः । श्राव्येषु - श्रोतव्येषु अत्र के योग्यार्थे यत्प्रत्ययः- एवमुत्तरत्रापि । उत्तम किम् । तद्वचस्तस्यास्तरुण्या- वचः मृदुमधुरभा- षणम् - तस्यैव श्रवणानन्दकरत्वादिति भावः । स्वाद्येषु अनुभवयोग्षु उत्तम किम् । तस्या ओष्ठः पल्लव इव तस्य - रसः अधरामृत - मित्यर्थः - तस्यैव रसनेन्द्रिय तृप्तिहेतुत्वादिति भावः । स्पृश्येषु स्पर्श- नयोग्येषु वस्तुषु उत्तमं किम् । तस्या वपुः कुसुमसुकुमारशरीरमित्यर्थः । -तस्यैव निरुपमत्वमिन्द्रियसैख्यावहत्वादिति भावः । उक्तमं ध्येयं ध्यानार्हं किम् - ध्यातव्येष्वित्वर्थः । नवयौवनं तरुणीनवतारुण्यमेव - तस्यैवात्यन्तमनोरञ्जकत्वादितिभावः । अथ सर्वथा - मुख्यं ध्येयमाह • सहृदयैर्हृदयालुभिः - रसिकजनैरित्यर्थः । सर्वत्र