पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
स्त्रीप्रशंसा

सर्वदेशेषु सकलकालेषु वा । तस्यास्तरुण्या विभ्रमा विलासाः । ध्येयो इति शेषः । अत्र तत्तत्प्रसिद्धविपयाणामेकत्र समष्टिवर्णनान्म- हान् शृङ्गारपरिपोषातिशय उक्तः । एतेनास्या लोकोत्तरमाभिरूप्यं - सूच्यते। तथा चोत्तमविषयाकांक्षिभिर्विशिष्टतरुणीसम्भोग एव - कर्तव्य इति फलितार्थः, तत्र प्रश्नोत्तरयोश्चातुर्यातिशयार्थमसकृ न्निबन्धनादुदात्तालङ्कारभेदः -

 उत्तरात् प्रश्न उन्नेयो यत्न प्रश्नोत्तरे तथा ।
 बहुधा च निब्ध्येते तदुत्तरमुदीर्यते.'

एताश्चलद्वलयसंहति मेखलोत्थ
झङ्कारनूपुरपराजितराजहंस्यः।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणी सदृशैः कटाक्षैः॥ ८ ॥

 व्या-अथा सां मुखाद्यलङ्करणवर्णनद्वारा सकललोकसम्मोह- कत्वमाह - एता इति.--चलन्त्यौ गतिवैचित्र्याद्वालमाने - ये वलय- संहतिमेखले-वलयसंहतिः कङ्कणश्रेणिः - मेखलाशब्देन काञ्चीवाचि- ना तन्निबद्धाः किङ्किण्यो लक्ष्यन्ते - तदुत्यस्तदुत्पन्नो यो - झंकारो- झणज्ञणस्तेन • नूपुराभ्यां मञ्जलनिनादमञ्जीराभ्यां च पराजिताः तिरस्कृता - राजहंस्यः कलहंसाङ्गना - याभिस्ताः । कलनादसुन्दरम- न्दगमनराजहंसरमणीया इत्यर्थः - नि. 'राजहंसो नृपश्रेष्ठे कादम्ब - कलहंसयोः' इति विश्वः । 'जातेरस्त्रीविषयादयोपघात्' इति ङीप् शैषिकस्य कपो वैभाषिकत्वान्न प्रयोगः । एताः पूर्वोक्तास्तरुण्य: -