पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
स्त्रीप्रशंसा

पङ्केन - सिन्दूर परनामशृङ्गारभूषणाख्यद्रवद्रव्यविशेषेण च - नि. . 'सिन्दूरं नागसम्भवम्। चीनपिष्टं च गान्धारं पङ्कं शृङ्गारभूषणम्' इत्यमरः - कलङ्कितश्चिह्नितो देहो यस्यास्सा - कुङ्कमसिन्दूरादि- रञ्जकद्रव्यशृङ्गारिताकारेत्यर्थः। अत एव गौरयो ररुणयोः - यद्वा पद्मिनीत्वात् श्रीफलसच्छाययोः - स्तनयुगळमनिन्द्यश्रीफलश्रीवि- डन्बि' इतिलक्षणात् - पयोधरयोः - कुचकुम्भयोः कम्पिताश्चलिता - हारा मुक्तावलयो - यस्यास्सा तथोक्ता । नूपुरौ मञ्जीरावेव हंसौ - हंसाविव नूपुरौ वा - ताभ्यां रणती शब्दायमाने - पदे एव पद्मे पझे इव पदे वा - यस्या स्सा। अत एव रूपकोपमयोः साधकबाधक- प्रमाणाभावात्सन्देह सङ्करः। रामा सुन्दरी भुवि कं पुरुषं । न वशी- कुरुते न स्वायत्तीकुरुते । जितेन्द्रियमपि स्वायत्तीकुरुत इत्यर्थः - नि. 'वश आयत्ततायां च' इति विश्वः * अभूततद्भावे च्विः' - 'ऊर्यादिच्षडाचश्च' इति गतिसंज्ञायाम् - 'कुगतिप्रादयः' इति समासः। अत्र सुटसुपेत्यननुवृत्तेः ।।

 अत्र हाराणां कम्पितत्वविशेषणेन पयोधरयोरत्यन्तपटुत्वं सूच्यते । अन्यथा कम्पनायोगात्। तेन चात्युत्कटयौवनसम्पत्तिश्च गम्यते। पयोधरयोश्च गौरत्वविशेषगेन रूपसमृद्धिर्व्य॑ज्यते; एतेना- लम्बनगुणलाभ उक्तः. एवं कुङ्कमपङ्केत्यनेन तटस्थोद्दीपनभावः कथितः ; तथा हारनूपुरात्मकालम्बनालङ्करणमभ्युट्टङ्कितम् ; रणत्पद- पद्मेत्यनेन सूचितो लीलागतिविशेषरूपानुभावश्च ; तथा चैवंविध- सामग्रीसमुल्लसितेन-

'आभिरूप्यमकाठिन्यमङ्गानां चातिमार्दवम् ।