पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
शृङ्गारशतके

एवमादिगुणावस्था प्रथमे यौवने भवेत् ' इत्युक्त्वा-
कृताधराङ्गसंस्कारा सखीकेळिषु लालसा' ॥

इत्युक्तचेष्टाविशिष्टयौवनपरिपूर्णेन रमयतीति रामेति व्युत्पत्त्या लोकोत्तरलावण्यसम्पन्नेनालम्बनविभावेनोदिते शृङ्गाररसार्णवे को वा न निमज्जतीति भावः, अत्र श्लाध्यविशेषणयोगादुदात्तता नामा गुण: । लक्षणं तूक्तम्। तथात्यन्तसुकुमारार्थसन्दर्भितत्वात्कैशिकी. वृत्तिः - 'अत्यन्तसुकुमारार्थसन्दर्भा कैशिकी मता' इति लक्षणात् दोधकवृत्तम् - 'दोधकवृत्तमिदं भभभा गौ' इति लक्षणात् ।।

नूनं हि ते कविवरा विपरीतवाचो
ये नित्यमाहुरबला इति कामिनीस्ताः ।
यामि विलोलतरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः॥ १० ॥

 व्या.---अथैतासां प्रागल्भ्यं वर्णयति - नूनमिति.--ते . कविवराः कवीश्वराः । विपरीतवाचो व्यत्यस्तवचनाः । नूनं सत्यं हि । ते क इत्याशङ्कायामाह - ये कविवरा स्ताः प्रसिद्धाः। कामि- नीः । अबलाः दुबैला। इति नित्यमाहुः ब्रुवते । वर्णयन्तीत्यर्थः - त इति संबन्धः * । ब्रुवः पञ्चानामादित आहो ब्रुवः'। इति उसा देशः - ब्रुव आहादेशश्च । कथं विपरीतवाच इत्याशङ्कय तासां प्राग- ल्भ्यं साधयति - याभिः कामिनीभि । र्विलोलतरा आतितरळा - स्तारकाः कनीनिका येषु ते तथोक्ता ये- दृष्टिपाता लोचनप्रसारास्तैर्दृक्प्रे- रणैः। कर्तृकरणयोस्तृतीया' इति तृतीया - 'तारकाक्ष्णः कनीनिकों'