पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
स्त्रीप्रशंसा

इत्यमरः । शक्रादय इन्द्रादयोऽपि किमुतान्य इति भावः । विजिता - निजिीता: - स्वायत्तीकृता इत्यर्थः । तास्तु कामिन्यः - कथमबलाः कुतो दुर्बला: - किं तु प्रबलाएवेत्यर्थः । वीक्षणमात्रेणैवेन्द्राद्युज्जयिनी- नां बलिष्ठत्वं किं वक्तव्यम् - अत एतासां दौर्बल्यप्रतिपादकाः कवय एव दुर्बलवाचां न तु ता इतिभावः ॥

___ अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थसमर्थकत्वाद्वाक्यार्थहेतुकं
काव्यलिङ्गमलङ्कारः - ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' -
इति लक्षणात् - वसन्ततिलकावृत्तम् ।।

नून माज्ञाकरस्तस्याः सुभ्रवो मकरध्वजः ।
यतस्तन्नेत्र संचारसूचितेषु प्रवर्तते ।। ११ ।।

 व्या.--अथ कामदेवस्य कामिनीकिंकरत्वमुत्प्रेक्षते - नून - मिति.---मकरध्वजः कामदेवस्तस्याः प्रसिद्धायाः पूर्वोक्ताया वा। सुभ्रुवः कामिन्याः • जातावेकवचनम् - सुभ्रवामित्यर्थः। आज्ञां करोतीत्याज्ञाकरः किंकरः * 'कृञो हेतु-' इत्यादिना टप्रत्ययः। नून मित्युत्प्रेक्षायाम् : कुतः - यतः कारणात्तस्याः सुभ्रुवो - नेव- संचारेण दृष्टिप्रसारेण - सूचितेषु संज्ञापितेषु । प्रवर्तते तद्वदित्यर्थः - अतः कामिनीनां नूनमयं किंकिर इत्ति भावः: कामिनीकटाक्षमा- त्रेणैव जनस्य मन्मथावेशसम्भवादियमुत्प्रेक्षा : सा च नूनमिति व्यञ्जकसद्भावाद्वाच्या - तदुक्तम्-

" मन्ये शङ्के ध्रुवं नूनं प्राय इत्येवमादिभिः ।।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥” इति ।

एतेन तासामप्रतिहतजगद्वशीकरणसामर्थ्यं व्यज्यते अनुष्टुप् ॥