पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
स्त्रीप्रशंसा

तस्याः स्तनौ यदि घना जघनं च हारि
वक्त्रं च चारु तव चित्तं किमाकुलत्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पण्यैर्विना न हि भवन्ति समीहितार्थाः ।। १८

 व्या.-तस्या इति.--तस्यास्तरुण्याः स्तनौ । घनौ निबिडौं- यद्यपि । जघनं कटिपुरोभागश्च । हारि मनोहारि यद्यपि - नि. 'स्त्री - कट्याः क्लीवे तु जघनं पुरः' इत्यमरः । वक्तुं च चारु मनोज्ञं - यद्यपि। हे चित्त । तव । आकुलत्वं लोलुपत्वं किं । किमर्थम् . मास्त्वित्यर्थः - तावन्मात्रेणासंभवादिति भावः । तर्हि किं कर्तव्य- मित्यत आह - तेषु स्तनादिषु । तव । वाञ्छा सम्भोगामिलाषोऽस्ति. यदि वर्तते चेत् । तईि। पुण्यं सत्कर्म । कुरुष्व समाचर । कुतः . पुण्यैर्विना समीहितार्था । न भवन्ति हि खलु । ज्योतिष्ठोमादि सत्क मचिरणेन रम्भासंभोगवत्केनचित्पुण्यविशेषेण तवापि तत्संभोगः संभ विष्यतीति भावः. अर्थान्तरन्यासालंकारः ॥ वसन्ततिलका ॥

इमे तारुण्यश्रीनवपरिमळाः प्रौढसुरत
प्रतापप्रारंभाः स्मरविजयदानप्रतिभुवः।
चिरं चेतश्चोरा अभिनवधिकारैकगुरवो
विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ १९

 व्या.--अथ विलासवर्णनं निगमयति.-इमे इति..--तारु- ण्याश्रियो यौवनसंपदो - नवपरिमला नूतनपरिमलप्रायाः - तद्वदभि - व्यञ्जका इत्यर्थः-यद्वा तारुण्यश्रियो - नवोऽपूर्वः - परिमलः सौभा-