पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
शृङ्गारशतके

ग्यविशेषो - येषां ते तथोक्ताः । प्रौढसुरतं प्रचण्डरति-स्तत्र यः प्रता- पः सामर्थ्यम् - तस्य - प्रारम्भा उपक्रमाः । स्मरस्य जगजित्वरस्य - मन्मथस्य - विजयदाने - प्रतिभुवः लग्नकाः - नि.--'स्युर्लग्नकाः प्रतिभुवः' इत्यमरः - तथा प्रतिभुवः अधमर्णात् - धनमुद्धृत्य उत्तमर्णाय दातुं समर्थास्तथा इमेऽपि दिग्विजयमाकृष्य स्मराय दातुं समर्था इत्यर्थः । चिरं चिरकालमारभ्य । चेतश्चोराः चित्ता- कर्षकाः मनोहरा इति यावत् । अभिनवविकारैराकस्मिकभय - कम्पानुकरणादिप्रत्यग्रयौवनविकारै - रेकगुरवोऽत्यन्तभूयिष्टा मृग- दृशां तरुणीनां संबन्धिन ! इमे पूर्वोपवर्णिता विलासव्यापाराः . शृङ्गारचेष्टा विशेषाः । किमपि अनिर्वाच्यतया । विजयन्ते सर्वोत्कर्षेण वर्तन्ते । विपराभ्यां जेः' इत्यात्मनेपदम्. शिखरिणीवृत्तम्.

प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमृदुला मुग्धप्रायाः प्रकाशितसम्मदाः।
प्रकृतिसुभगा विस्त्रम्भार्द्राः स्मरोदयदायिनी
रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ २०

व्या.–प्रणय इति.--

" विस्रम्भे परमां काष्ठामारूढे दर्शनादिभिः ।
येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते ॥"

इत्युक्तलक्षणः स्नेहः प्रणयशब्देन विवक्षितः - तेन - प्रणयेन मधुराः संतापहराः - शीतलीक्रियते तापो येन तन्मधुरं स्मृतम्' इति लक्षणात्। प्रेम्णा अनुरागविशेषेण - उदारा रम्या: - मनोहरा