पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
संभोगवर्णनम्

इति यावत् । रसाश्रयतां शृङ्गारास्पदत्वं गताः - शृङ्गाररसप्रसरो- ल्लसिता इत्यर्थः। फणित्या संदर्भविशेषेण - मधुराः माधुर्यगुण- युक्ताः - अमृतप्राया इत्यर्थः - मुग्धप्रायाः सौकुमार्यभरिताः - श्रुति- रञ्जका इत्यर्थः - प्रकाशितोऽभिव्यज्जितः - सम्मदः संभोगौत्सुक्यं . यैस्ते तथोक्ताः। प्रकृतिसुभगाः स्वभावरुचिराः। विस्रम्भाद्रो विश्वासपरिप्लुताः। अत एव। स्मरोदयदायिनो जितेन्द्रियस्यापि मन्मथोद्रेकावहाः। मृगीदृशां संबन्धिनः खैरालापाः नर्मोक्तय इति यावत्। रहसि किमपि हरन्ति। यद्वा रहसि स्वरालापा इत्य- न्वयः। किमपि हरन्ति । यद्वा अनिर्वाच्यतया मनोहरा भवन्तीत्यर्थः।।

 अत्र श्लोकद्वयेऽपि समर्थसहिष्णोः शृङ्गारस्य पाठसमयेऽ- प्यास्वाद्यमानत्वादन्तर्बहिःस्फुरणेन द्राक्षापाकोऽनुसंधेयः - 'द्राक्षा- पाकः सकथितो बहिरन्तः स्फुरद्रसः' इति लक्षणात् ; तथा श्लेष- प्रसादादयो दण्ड्याचार्योक्ता दश प्राणाश्च प्रायेणात्र सन्ति । ते निपुणैरुन्नेया इति संक्षेपः ; प्रकरणेऽस्मिन्प्रायशो नायका अनुकूला दक्षिणाश्चाऽनुसंधेया: - 'एकायतोऽनुकूल: स्यात्तुल्योऽनेकत्र दक्षिणः' इति लक्षणात्. हरिणीवृत्तम् .

इति शृङ्गारशतके स्त्रीप्रशंसा सम्पूर्णा ॥


॥ संभोगवर्णनम् ॥

विश्रम्य विश्रम्य वने द्रुमाणां छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥२१