पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
११
मूर्खपद्धतिः

रमृतस्वादुभिरतिमधुरैरित्यर्थः । सूक्तैः प्रियोक्तिभिः - नपुंसके भावे क्तः । मूर्खान् प्रतिनेतुं समाधातु मिच्छति सोऽसाविति संबन्धः : मृणालतन्तुभिव्र्याळनिरोधनादितत्पर इव मूर्खानुनयपरोऽप्यत्यन्ता- विवेकीति भावः । अत्यन्तदुष्करं मूर्खप्रसादनमिति फलितार्थः ॥

 अत्र यः प्रतिनेतुमिच्छति वाञ्छति असौ समुज्जृम्भत इत्यादि विशिष्टानुनयेच्छाविजृम्भमाणादिवाक्यार्थयोनिर्दिकत्वासंभ- वात् सादृश्यलक्षणायामसंभवद्वस्तुसंबन्धो वाक्यावृत्तिनिदर्शना- भेदः ; न प्वायं दृष्टान्तः। वाक्यभेदेन प्रतिबिम्बकरणाक्षेपे तस्यो- त्थानात् । अत्र तु वाक्यार्थे वाक्यार्थसमारोपाद्वाक्यैकवाक्यतायां तदभाव इत्यलंकारसर्वस्वकारः ।।

 शार्दूलविक्रीडितम् - " सूर्याश्रैर्मसजस्तताः सगुरवः शार्दूल- विक्रीडितम्” इति लक्षणात् ।।

 

स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥

 व्या..---अथैषां गतिमाह---स्वायत्तमिति.---विधाता ब्रह्म- णा कर्त्रा स्वायत्तमात्माधीनं - न तु परोपदेशसापेक्षम् -नि- 'अधीनो निन्न आयत्त' इत्यमरः । एकान्तहितमत्यन्तहितकारि - स्वावगुणाच्छादकत्वादिति भावः। तथा विशेषतो विशेषाकारेण - सार्वविभक्तिकस्तसिः । सर्वविदां समाजे सर्वज्ञसभायाम् । विभूषण- मुपस्कारहेतुभूतत्वाद्भूषणप्रायम् । मौनं तूष्णीम्भावः कर्म वा 'इग- न्ताश्च लघुपूर्वा 'दित्यण्। अपण्डितानामविदुषां संबन्धिन्याः।