पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
शृङ्गारशतके


अन स्त्रीणां पुरुषाणां च यौवनकृतसुरत मेव रमणीय मिति- तात्पर्यम् ॥  पुष्पिताम्रा वृत्तम्-'अयुजि नयुग रेफतो यकारो युजि च । नजौ जरगाश्च पुष्पितामा' ॥ इतिलक्षणात् ॥

राजं स्तृष्णाम्बुराशे र्नहि जगति गतः कश्चि देवावसानं
कोपार्थोऽधैः प्रभूतैः स्ववपुषि गळिते यौवने सानुरागे ।
गच्छामः सम याच द्विकसितनयनेन्दीवरालोकिनीना
माक्रम्याक्रम्य रूपं झडिति न जरयालुप्यते प्रेयसीनाम् ।।

 व्या.--यदुक्तं सुरतानुगुण्येन यौवनस्यात्यन्तावश्यकत्वं त्रिभिर्वर्णयति. तत्रादौ चिरप्रवासनिर्विण्गानां राजसेवा तत्पराणां यूनां वचन मेतत् - राजन्निति. हे राजन् । जगति अस्मिन् लोके। कश्चिदेव कश्चिदपि पुमान् । तृष्णा धनलिप्सा सा एवाम्बुराशिः समुद्रस्तस्य अवसानं पारं न गतो हि न प्राप्तः खलु - किन्तु मग्न एवे त्यर्थः - तृष्णाया अपरिच्छिन्नत्वा दम्बुराशिवरूपणम् । अथ यावत्काइक्षितार्थलाभेऽपि न तैः प्रयोजनसिद्धिरित्याहुः - प्रभूतैः प्रचुरैः -- नि, 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः - अर्धधनैः । को - वार्थः किं प्रयोजनम् - न किमपीत्यर्थः - अकिंचित्करत्वादिति - भावः . नि 'अर्थोऽभिधेयरैवस्तुप्रयोजन निवृत्तिषु' इत्यमरः । कस्मिन् कथं भूते सति? वपुषि निजशरीरे (अधिकरण)। सानु : रागे संभोगेच्छा जनके अनुरागसहिते वा यौवने । गलित सति-कोऽर्थ इति संबन्धः, धनलाभादपि यौवनमेवास्माकं बलीय इत्यर्थः। अतस्तावत्तत्पूर्व मेव । सह्म स्वगृहं प्रति । गच्छामो यास्यामः ।