पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
नीतिशतके

अज्ञतायाः। मौढ्यस्य च्छादनमाच्छादकम् । सद् । विनिर्मितं रचितम्। अतोऽपण्डितैर्निजमौव्यसङ्गोपनार्थ मानेनैव वर्तितव्य मिदमेवैतेषां गतिः - अन्यथा हास्यास्पदता स्यादिति भावः । 'एकान्तकृत 'मिति पाठे तु। कृतं कर्म - भावे क्तः - एकान्तकृतं रहस्यनुष्टितं कर्म - अज्ञतायाः छादनं सद्विनिर्मितमपण्डितानां मौनं भूषणं सद्विनिर्मितमिति प्रत्येकमन्वयो द्रष्टव्यः । अज्ञताच्छादनार्थ- मेकान्त एव कर्म कर्तव्यमपण्डितैमौंनिभिरेव स्थातव्यमन्यथा स्वरूप- प्रकाशनेनापहास्यास्पदता स्यादिति भावः ॥

 उपजातिवृत्तम् - ' इन्द्रोपेन्द्रवज्र' ति लक्षणात ; तौ द्वौ कीध्म्विधौ?

" स्यादिन्द्रवज्रा यदि तौ जगौ गः उपेन्द्रवज्रा जतजास्ततो गौ।
___ अनन्तरोदीरितलक्ष्मभाजः पादा यदीया उपजातयस्ताः ॥”

इति वृत्तरत्नाकरे उक्तत्वात् ॥

यदा किंचिज्ज्ञोऽहं गज इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः।
यदा किंचित्किंचिद्बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥८॥

 व्या.----अथ कश्चिदनुभविनः परान्, प्रति स्वानुभवप्रकार- माह. -यदेति.-अकिंचिद्ज्ञः अल्पज्ञस्सन् । यदा यस्मिन् समये। गज इव । मदेन दर्पणान्धः कर्तव्यविवेकशून्यः । समभवं जातोऽस्मि । तदा तस्मिन् समये। सर्वज्ञः अशेषज्ञोऽस्मीति मम मनोऽवलिप्तं