पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
शृङ्गारशतके

पोषण व्यासङ्गरूपे कुनृपतिभवनद्वारस्य कुत्सित राजमनदिरस्य प्रतिहा- रस्य सेवा अनुवर्तन मेव - कलङ्कोऽपवादः - तत्र यो व्यासङ्गः - अत्यासक्ति स्तेन व्यस्तं - धैर्यं धीरत्वं यस्य तत्तथोक्तम् । ईदृक्कष्ट - कर्मासक्तत्वान्मलिन मित्यर्थः । कथं संनिध्युः कुर्युः न कथंचिदपी- त्यर्थः। किं न स्या चेदित्यत आह - प्रोद्यन् उदित्वरो-य इन्दुः तस्य द्युति रिव द्युति र्येषां तानि चन्द्रधवलानि माञ्चिष्ठानि वा - उद्यद्विशेषण सामर्थ्यात् - तानि निघयानि अंकुशानि - बिभ्रतीति तथोक्ताः । अम्भोजे इव नेत्रे यासां ताः पद्मपलाशविशाललोचना इत्यर्थः । प्रेङ्खत्काञ्च यः क्वणद्रशना एव - कलापा भूषणानि - यासां ताः - यद्वा काञ्च योभूषणानि यासां ताः नि. कलापो भूषणे बेहे' इत्यमरः स्तनभरेण कुचकुम्भगौरवेण - विनमन्ति अवनतानि - मध्यानि बलग्नानि - भजन्ती ति तथोक्ताः - पीवरकुघाः कृशो - दर्य श्च इत्यर्थः - एतेन सौन्दर्यातिशय उक्तः । एताः प्रसिद्धा - स्तरुण्यो युवतयः - न स्युर्यदि न भवेयु र्यदि-तर्हि कथं संनिध्यु रिति संवन्धः ; अतो विशिष्टतरुणीनां विद्यमानत्वादेव सुधियोऽ प्येवंभूता भवन्तीत्यर्थः। तस्मा तरुण्यो दुष्परिहरा इति भावः । तदुक्तम् ।।

" असाधा विह संसारे दुारे मकरध्वजे ।
कुले च कामिनीमूले कावास्यात्परिकल्पना?" ॥ इति ।।

अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थसमर्थकहेतुत्वाकाव्यलिङ्गभेदः ।। म्नग्धरा ॥