पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
संभोगवर्णनम्

सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुम्णद्रुमे
गङ्गाधौतशिलातले हिमवतः सानौ स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाम मलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ ३२

 व्या.--सिद्धति • सिद्धैर्योगिभिः-अध्यासिता अधिष्ठिता- कन्दरा गुहा-यस्मिंस्तत्तथोक्ते-एतेन तपस्सिद्धि हेतुत्वं सूच्यते । हरस्य नित्यसन्निहितस्य - योवृषो वाहनभूतो महोक्षस्तस्य स्कन्धेन अंसपी- ठेन - ककुदेति यावत् - अवरुग्णाः भग्नाः - द्रुमा यस्मिन् तत्तथो- क्तम् * ' रुजो भङ्गे' कर्मणि क्तः ‘ओदितश्च' इति निष्ठानत्वेणत्वम् - एतेनाखिलश्रेयःप्रदशिवसानिध्य मुक्तम् । गङ्गाधौतानि गङ्गाप्रक्षालितानि - शिलातलानि । यस्मिन् तत्तथोक्ते - एतेनाऽत्यन्तपवित्रत्वमुक्तम् । अत एव श्रेयसि श्रेष्टे - श्रेयस्करे - वा हिमवतो गिरेः । संबन्धिनि स्थाने प्रदेशे स्थिते सनि । कोवा मनस्वी सुमेधाः धीरो जनः * प्रशंसायामिनिः । शिरो निजोतमाझं प्रणामेन कुनृपतिपादवन्दनेन • मलिनं कलङ्कितम् । अत एवम्लानं उत्कर्षहीनं । कुर्वीत । 'मलिनं मानम् ' इति पाठे - मानं निजाभिमानं (कर्म) - शिरः प्रणामेन निजोत्तमाङ्गविनमनेन - मलिनं प्रतिष्ठाहीनं - कुर्वीत । न कोऽपीत्यर्थः । कुतः - यद्यस्मात्कारणात् । वित्रस्तकुरङ्गशाबनयनाः पद्मनीजातित्वाञ्चकितवालहरिणेक्षणाः । अत एव । स्मरास्त्रं महावीरस्य स्मरस्य जगद्विजयसाधन - भूतबाण इत्यर्थः * लिङ्गवचनव्यत्ययो नित्यनपुंसकत्वेन जात्यभि- प्रायेणवा वेदाः प्रमाणम्' इत्यादिव इष्टव्यः इत्युक्तं प्राक् । स्त्रियः