पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
शृङ्गारशतके

नस्यु श्चेत् अतः अमोघ मदनशस्त्र भूतस्त्रीणामपरित्याज्यतया विध- मानत्वा देव मनस्विना मपीदृग्दुरवस्थापत्तिरिति भावः ।।

 वृत्तमुक्तम् ।।

संसार ! तब पर्यन्तपदवी न दवीयसी।
अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाः ॥  ३३

 व्या.--संसार इति.---- हे संसार । तव । पर्यन्तपदवी अवसानसीमा न दवीयसी न दविष्ठा भवति - न दूरतरेति यावत् - किन्तु नेदीयस्येवेत्यर्थः। * दूरशब्दा दीयसुनि · उगितश्च' इति डीप् । स्थूलदूर -' इत्यादिना यणादि परलोप पूर्वगुणौ। कुतः - ते तव अन्तरामध्ये ! दुस्तरा महानद्य इव तरितु मशक्याः । 'ईषद्दु:--' इत्यादिना खल्प्रत्ययः । मदिरेक्षणाः स्त्रियः । न स्यु - र्यदि नसंभाविता श्चेत् । न दवीयसीति सम्बन्धः । सम्भावितत्वादेव दवीयसी त्यर्थः। एतेन संसारपारपार गमन प्रतिबन्धिन्यः स्त्रिय इत्युक्तम् । तत्परित्यागे तु श्रेयस्संभव इति भावः, पूर्वश्लोकेऽप्यत्रा- पिच पूर्वतरलोकवत्कार्य मुन्नेयम् ।।  अनुष्टुप् ॥            इति शृङ्गारशतके संभोगवर्णनं सम्पूर्णम् ।।


          ॥ पक्षद्वयनिरूपणम् ॥

दिश वनहरिणेभ्यो वंशकाण्डच्छवीनां
कबळमुपलकोटिच्छिन्नमूलं कुशानाम् ।