पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३
पक्षद्वयनिरूपणम्

शकयुवतिकपोलापाण्डुताम्बूलवल्लीदळम्
अरुणनखात्रैः पाटितं वा वधूभ्यः ॥ ३४

  व्या.---इत्थं स्त्रीणां परिहर्तु मशक्यत्वे तदासक्तस्य कुतः श्रेयः प्राप्तिरित्याशङ्कायां तदत्यन्तात्याज्ययोरप्यैहिकामुष्मिकफलसा - धनत्व मेवेति मनसि कृत्वा तदुभयमिदानीं तावन्निरूपयितुं प्रति- जानीते - 'अथ पक्षद्वयनिरूपणमिति' - अथ स्त्रीणां परित्याज्यत्व- कथनानन्तरं पक्षयोः विरक्त्यनुरक्तिरूपपक्षयोः द्वयस्य निरूपणं क्रियते । तत्प्रकारमाविंशतिसमाप्ते वर्णयति.--दिशेति. हे जने त्यध्याहार्यम् । वने पुण्यारण्ये । हरिणेभ्यः कुरङ्गेम्यः - तपः प्रस- क्त्या निर्भीकत्वेन तेषां समीपवर्तित्वादितिभावः । उपलकोट्या निशितपाषाणप्रान्तेनच्छिन्नानि लूनानि मूलानि - यस्य तथोक्तम् - तत्र लवित्रादिसाधनान्तरासंभवान्मूलानामुपलकोटिच्छिन्नत्वमुक्तम् । वंशकाण्डस्य वंशकरीरस्य - छविरिव छवियेषां तेषाम् सरसानामित्यर्थः । कुशानां । कबलं प्रासं वा - दिश । तपश्चरणसमय इति शेषः ; अथवा । वधूभ्यः प्रियतमाभ्योऽरुणनखानामग्रैः पाटितं शकलितं - शकयुवतीनां शकाख्यदेशीयतरुणीनां - कपोलव - दापाण्डु - आसमन्ताद्धवलं । यत्ताम्बूलवली दलं नागवल्लीपत्रं । तद्वा दिश। संसरणसमय इति शेषः ; उक्तोभयमेव पर - भूसौख्यनिदानम् उभयत्र । नान्यदिति भावः। एव मुत्तरत्रापि यथा योग मूहनीयम् ।।   अत्र नखानामारुण्यग्रहणं महाभाग्यलक्षणत्वेन सुखित्वद्यो- तनार्थम् - तदुक्तम् सामुद्रिकैः -