पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
मुखपद्धतिः

गर्वितमभवत् - “अल्पविद्यो महागर्वी "ति न्यायाल्पज्ञत्वस्यैव गर्वहेतुत्वादिति भावः। नि-"अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि घे"ति विश्वप्रकाशः। यदा बुधजनसकाशाद्विद्वज्जनमुखादित्यर्थः - 'आख्यातोपयोग' इत्यपादानत्वात् पञ्चमी। किंचित्किंचित् स्वल्पं खल्पं - शास्त्रबोधिताचारादिकमिति शेषः । अवगतं ज्ञातम् । तदा। मुखें मूढोऽस्मीति। मे मम। मदो ज्वर इव। व्यपगतो निर्गतः। अभूदिति शेषः। वरवद्विकारकारित्वादस्यैतत्साम्यमि- त्यवगन्तव्यम् । 'आचार्यवान्पुरुषो वेद' ति श्रवणादाचार्यादवगत- विद्यस्यैव विवेकसंभवादिति भावः ; अल्पज्ञोऽपि सन् यस्सर्वज्ञ- मात्मानं मनुते स एव मूर्खः । यस्तु सर्वज्ञोऽपि मूढमानी भवति स एव विद्वानिति विवेकः। मदो गर्वहेतु गुरुशुश्रूषादिविनयहेतु- रिति फलितार्थः । यद्वा एतावन्तं कालं मदवशान्मूोऽस्मि । इदानीं गुरुशिक्षावशाद्विवेकावगतिरिति वा योजनीयम् ॥

 शिखरिणीकृतं - - रसै रुद्वैश्छिन्ना यमनसमला गः शिखरि- णी"ति लक्षणात् ॥

क्रिमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं
निरुपमरसप्रीत्या खादन्खरास्थि निरामिषम् ।
सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ९ ॥

 व्या...-मूर्खस्यातिनच्यं दृष्टान्तमुखेनाह.--क्रिमिकुलमिति.- श्वा शुनकः। क्रिमिकुलैरमेध्यमध्योत्पत्तिमदपादजन्तुसंततिभिश्चितं