पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
शृङ्गारशतके

 मर्त्याना मवगाहनात्सकृदपि स्वर्गेऽपि संस्थापिनी' इत्यादि- अथवा मनोहारिणि अत्यन्तमनोहरे । पूर्ववण्णिनिः । कुतः . हारिणि मुक्ताहारवति । अत्र मत्वर्थीय इनि प्रत्ययः । तरुण्या: नवयौवनायाः । स्तनद्वये आवासः परिशीलनतात्पर्यं क्रियताम् । तरु - णीस्तनाश्रयस्यैव निरतिशयसुखहेतुत्वादिति भावः ॥

 अत्र तरुणीग्रहणं स्तनद्वयस्य पतनाभावेन पाटवातिशयद्यो- तनार्थम् । अन्यथाऽभासप्रसङ्गात् : एतेन मणिहिरण्मय कङ्कणयोरिव स्तनद्वयहारयो रप्यन्योन्यरामणीयक प्रकाशपरिपोषावहत्वेन विशिष्ट स्तनद्वयस्याश्रयणयोग्यत्वं सूचितमित्यवगन्तव्यम् । यथाह श्रीहर्ष:- 'तरुणी स्तनएव दीप्यते मणिहारावलिरामणीयकम् ' इति ।।  अत्र पूर्वोत्तरवाक्यस्थयो रनुप्रासयमकयोः शब्दाऽलंकारयोः संसृष्टिः स्पष्टा || अनुष्टुप् ॥

किमिह बहुभीरुक्तैयुक्तिशून्यैः प्रलापै
र्द्वयमिह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ।। ३९

 व्या.---अथ द्वाभ्यां निगमयति - किमिति..--इहास्मि- न्नर्थे । बहुभि रपरिमितैर्युक्तिशून्यै निस्सारै रुक्तैरुदितैः । प्रलापै रनर्थकवचनैः किं फल मिति शेषः । वाचो विग्लापन विना न किञ्चि- त्फलमस्तीत्यर्थः - नि.-'प्रलापोऽनर्थकं वचः' इत्यमरः - किं त्विहास्मि लोके । पुरुषाणां द्वयं । सर्वदा निरन्तरम् - 'सर्वथा 'इति. या पाठः । सेवनीयम् । किं तद्द्वयमत आह - अभिनवा नूतना-या