पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
पक्षद्वयनिरूपणम्

मदलीला मन्मथावेशजनितविलासास्तासु लालसं लोलुपम् । अत्यासक्तमित्यर्थः । स्तनभरेण कुचकलशभारेण - परिखिन्नं परि - श्रान्तम् । उभयत्राऽपि यौवनवतीधर्मो यौवन उपचर्यते । सुन्दरीणां यौवन वा । नत्वसुन्दरीणा मिति भावः । उत वनं पुण्यारण्यं वा । सेवनीयमिति संवन्धः । एतयोरेव परमसुखनिदानत्वादिति भावः ।। मालिनी ॥

सत्यं जनावच्मि न पक्षपाताल्लोकेषु सप्तस्वपि तथ्य मेतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्नच कश्चिदन्यः।।

 व्या..--इदानीं निष्कृष्टमर्थमाह-सत्यमिति,-किं बहुना। हेजनाः। सत्यं वच्मि यथार्थं ब्रवीमि । पक्षपातात् वैषम्या न्न वच्मि । सप्तसु लोकेष्वत्येतदेव तथ्यभित्यर्थः । कि मेतदित्यत आह - निताम्बनीभ्यस्तरुणी भ्यः । मनोहारि मनोहरं वस्तु। नास्ति । तथा ताभ्योऽन्य इतरः। दुःखानामेकहेतुर्मुख्यकारणं च नास्ति - को भोगो रमणीं विने' त्यादिना भोगैकसाधनत्वात्। - बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः' इत्यनर्थमूलत्वाच्च नितम्बिनीनामेव परम- सुखदुःखैकनिदानत्वादिति भावः ।।  अत्र सप्तश्लोक्या पक्षद्वयनिरूपणस्यायमभिप्रायः - 'अखण्ड - निरतिशयानन्दावाप्तिलक्षणत्वेनाभ्यर्हितत्वान्मुख्यो मोक्षः पुरुषार्थ इति सकलमतसिद्धान्तः । प्रसूतिभाजो विश्वस्य स्खीपुंसाभ्यामेव निष्पन्नत्वात्कामस्य पितृऋणविमोचन हेतुभूततया सततं महापुरुष - परिग्रहात्पुरुषार्थत्वमिति नन्दिकेश्वरश्वेतकेतु पाञ्चालवात्स्याय नादि पूर्वसिद्धान्तः ; एवं च सति पूर्वालाभे परः पर' इति न्यायान्मुख्य-