पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
शृङ्गारशतके

कल्पालाभेऽनुकल्पस्यापि विहितत्वान्मोक्षपुरुषार्थसाधनप्रवृत्यलाभे
कामपुरुषार्थसाधनेषु वा अवश्यं प्रवृत्तिः कर्तव्येत्यनुसंधायैव-
मुपन्यस्तमिति ॥

तत्र नितम्बिन्यतिरिक्तरम्यवस्त्वनर्थहेत्वो स्सत्यपि संबन्धेऽ प्यसंबन्धोक्ते रतिशयोक्तिभेदः । इन्द्रवज्रा - ' स्यादिन्द्रवत्रा यदितो- जगौ गः । उपेन्द्र वज्राजतजा स्ततो गो' इति लक्षणात् ।।                      इति शृङ्गारशतके पक्षद्वयनिरूपणं सम्पूर्णम् ॥


          ॥ कामिनीगर्हणम् ॥

कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नम
त्पीनोत्तुङ्गपयोधरेति समुखाम्भोजेति सुभ्रूरिति |
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियं अहो मोहस्य दुश्चेष्टितं ॥४१॥

व्या.-~-यदुक्तं 'दुःखैकहेतुर्नच कश्चिदन्य' इति तदेव प्रपञ्चयितु मिदानीं कामिनीगर्हणभारभेते - अथ कामिनीगर्हण मिति - अथ संभोगनिरूपणानन्तरं कामिनीविगहणं कामिनीनिन्दा आविंशतिसमाप्ति क्रियत इति शेषः । ननु शृङ्गारालम्बनत्वेन प्रसिद्धानां कामिनीनां गर्हणे शृङ्गारवर्णनप्रतिज्ञाभङ्गः प्रसज्यतेति चेन्न। शिशुपालादिकृतभगवद्गर्हणस्य पुरुषार्थपर्यवसानवत्कामिनीगर्हणस्यापि यथाकथंचिच्छृङ्गारवर्णन एव पर्यवसानान्न कोऽपि विरोध इति मन्तव्यम्। तत्प्रकारमेव विवृणोति.कान्तेति - वेत्तीति विद्वान्