पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
कामिनीगर्हणम्

 व्या.–तावदिति - तावदेव तावत्पर्यन्तमेवामृतमयी अमृ . तोपमाना तद्वन्मधुरतरेत्यर्थः - वधूरिति शेषः । · तत्प्रकृतिवचने । मयट्'। 'टिड्ढाणञि त्यादिना डीप् ' कियत्पर्यन्तमित्यत आह - यावद्यावत्पर्यन्तं । लोचनगोचरा चक्षुर्विषया भवति तावदिति संबन्धः। व्यतिरेके तु नैवमित्याह - चक्षुष्पथात् लोचनमार्गात्। ऋक्पूरि’त्यादिना समासान्तः । अतीता तु अतिक्रान्ता चेद्विपात्काल - कूटादप्यतिरिच्यते अतिरिक्ता भवति - तद्वत्प्राणप्रयासकारिणी भवतीत्यर्थः ॥

 अत्र वध्वा अमृतमयत्वविषातिरिच्यमानत्वासंबन्धेऽपि तत्सं- बन्धाभिधानादसंबन्धे संबन्धरूपाऽतिशयोक्तिः ॥

 नामृतं न विषं किंचिदेतां मुक्त्वा नितन्बिनीम् ।
सैवामृतलता युक्ता विरक्ता विषवल्लरी ।। ४४

 व्या.---उक्तमेवार्थ भङ्ग्यन्तरेणाह - नेति.--एतां नित - म्बिनी मुक्त्वा विहाय । अमृतममृतशब्दवाच्यं । किंचिद्वस्तु . नास्ति । विषं विषशब्दवाच्यमपि किंचिन्नास्ति। इयमेवामृतप्राया विषप्राया चेत्यर्थः । कुत एतदित्याशङ्क्यतत्त्वं साधयति - रक्ताऽनुरागवती चेत् । सैव नितम्बिन्येव । अमृतलता संजीवनी भवती - इत्यर्थः । विरक्ता अनुरागरहिता चेद्विषवल्लरी विषलतामञ्जरी - नि। वल्लरी मञ्जरी स्त्रियामि' त्यमरः • प्राणापहारणी भवतात्यथः । अत्र नितम्बिनीव्यतिरेकेणामृतविषयोरस्तित्वसंबन्धेऽप्यसंब - न्धकथनात संबन्धे असंबन्धरूपातिशयोक्तिः । तथोत्तरार्धे तस्या मोहामृतलतात्वविषवल्लरीत्वरूपणाद्रूपकालंकारः। सच रक्तत्वविरक्तत्त्र