पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
शृङ्गारशतके

‘यदार्थहेतुक काव्यलिङ्गोत्थितः सन्पूर्वातिशयोक्तिमुज्जीवयतीति संकरः॥  प्रायेणैकार्थमप्यनेक लोकमुक्तिविशेषलोभाल्लिखन्ति कवयः- यथा नैषधे 'आदावेव निपीये'त्यादि श्लोकद्वयं। यथा च माघे-'प्रसाधि- तस्ये'त्यादि श्लोकद्वयमित्यादि ।

आवर्तः संशयानामविनयभवनं पट्टणं साहसानां
दोपाणां सन्निधानं कपटशतप्तयं क्षेत्रमप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरण्डं
स्त्रीयन्त्रं केन सृष्टं विषमपृतमयं प्राणिलोकस्य पाशः॥४५

 व्या.---अथ स्त्रीयन्त्रस्र्ष्टारं दूषयति - आवर्त इति.----संश यानां संदेहाना मावर्तः परिपाकः - सकलदेहास्पदीभूतमित्यर्थः । अविनयानां । भुवनं लोकः । साहसाना पट्टणं नगरं । दोषाणां रागद्वेषादीनां सन्निधानमक्षयनिधिः - कदाचिदाप्यत्र दोषा न क्षीयन्त इति भावः । कपटशतमयमनेककैतवप्रचुरं। बहुविध कैतवा- न्यत्रैव प्राचुर्येण वर्तन्त इति भावः । प्राचुर्ये मयट् । अप्रत्यया- नामविश्वासानां - नि! ' प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुष्वि'त्यमरः। क्षेत्रमुत्पतिभूमिः . अनेकाप्रत्ययोत्पादकमित्यर्थः । स्वर्गद्वारस्य स्वर्गलोकप्राप्तिसाधनस्य । विघ्नः प्रतिबन्धः । नरक- पुरमुखं यमलोकद्वारं - तत्प्रापकमित्यर्थः - नि । 'मुखं तु वदने मुख्ये ताम्रे द्वाराभ्युपाययो' रिति यादवः । सर्वमायाकरण्डमशेष- शाम्बरीविद्येन्द्रजालमहेन्द्रजालपेटिकेत्यर्थः । अमृतमय सुधारूप-विषं बहिरमृतवत्प्रतीयमानं विचार्यमाणे विषप्रायमित्यर्थः। लोकस्य