पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
right
शृङ्गारशतके

णात् - नि. : अथ चाम्पेयश्चम्पको हेमपुष्पक' इत्यमरः * 'पुष्प . मूले बहुलमिति लुक | अङ्गयष्टिर्गात्रयष्टिरपि । न कृता न निर्मिता। किं त्वेवमुक्त प्रकारेण वदनं चन्द्र इत्याद्याकारेणेत्यर्थः । कविभिः प्रगल्भवचनै : कवीश्वरैः । प्रतारितमना वञ्चितचित्तः - विमोहि- तस्मन्निति यावत् । मन्दो मूढो जनः । तत्त्वं जानन्नपि नत्विदं चन्द्रः किं तु तत्साम्येन तथा व्यपदिश्यत इति विदन्नपीत्यर्थः। त्वङ्मां- सास्थियमत्यन्तजुगुप्सितमपीत्यर्थः। मृगद्दशा स्त्रीणां । वपुः कळेबरं सेवते संभोगार्थमाश्रयते । विद्वांस्तुनैवमिति भावः ॥   अत्र प्रसारितमनःपदार्थस्य जुगुप्सितवपुराश्रयणपदार्थं प्रति हेतुत्वात्काव्यलिङ्गभेदः । शार्दूलविक्रीडितम् ॥

श्रीमानस जादिलासा
स्त एव मूढस्य ह्रदि स्फुरन्ति ।
मोकिन्धा हि निसर्गसिद्ध
स्तत्र भ्रमत्येव मुधा षडङ्घ्रिः ॥  ४७

 व्या.---'अथ पुरुषाणां भ्रान्तिं सदृष्टान्तमाह - लीलावती - नाभिति.-लीलावतीनां विलासिनीनां । विलास विभ्रमा स्स- हजा नैसर्गिकाः अत एव । तेविलासाः। मूढस्याज्ञस्य । हृदि स्फुरन्ति आत्मगोचरा इमे विलासा इति बुद्धया सर्वदा हृदयपरिस्फुरितः भवन्तीत्यर्थः । एतच्च वृथैवेति भावः ; तथाहि - नलिन्या: । रागो रक्तिमा - अनुरागश्च । निसर्गसिद्धः। किंतु । पडङ्घ्रि- षट्पदः विटश्च ध्वन्यते। वृथा व्यर्थमेव । तत्र नलिन्यां । भ्रमति रागोऽयं मद्रोचर