पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
कामिनांगहणम्

इति भ्रान्त्या पर्येटति - वस्तुतस्तु न तथा : अतो व्यर्थमस्य भ्रमण - मितिभावः ॥  अत्र वाक्यद्वये बिम्बप्रतिबिम्वभावेन साम्यनिर्देशादृष्टान्ता - लंकारः ॥

 'यत्र वाक्यद्वये बिम्बप्रतिबिम्बत्तयोच्यते।
सामान्यधर्मो वाक्यज्ञैस्स दृष्टान्तो निगद्यते' इति लक्षणात् ;

अयं च रागयोर्द्वयोर्भेदेऽपि श्लेषभितिकाभेदाध्यवसायमूलातिशयो - क्तिनिर्व्यूढभ्रान्तिमदुज्जीवितथा प्रस्तुतनलिनीषट्पदविशेषणसाम्या - दप्रस्तुतकामिनीविटप्रतीतिगोचरसमासोक्त्याङ्गेन संकीर्यते ॥     वृत्तमुपजातिः ॥

यदेतत्पूर्णेन्दुधृतिहरमुदाराकृति परं
मुखाब्जं तन्वङ्गाः किल वसति यत्राधरमधु ।
इदं तत्किपाकद्रुपलभिदानीमतिरसं
व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ ४८

 व्या.---अथापातरमणीयरमणीमुखावलोकनेन न विमोहि - तव्यमित्याह - यदिति.-यदेतद्वर्णनीयं तन्वयाः तरुण्या। मुख-

मब्जमिव मुखाब्जं बक्त्रपद्मं कर्तृ । पूर्णेन्दोः पूर्णचन्द्रस्य - द्युतिहरं

कान्तिचोरकं - तत्कल्पमित्यर्थः - अजस्य पूर्णेन्दुद्युतिहरत्वं - विरुद्ध मिति ध्वनिः । तथ।। परमत्यन्त मुदारा रम्या - आकृतिराकारो- यस्य तत्तथोक्तं । किं च यत्र मुखाब्जे । अधरमधरोष्ठसंबन्धि - मधु मकरन्दः - अमृतं वा वसति अस्ति किल - किलेति वार्तायां न तु