पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
शृङ्गारशतके

कदाऽप्यनुभूतमित्यर्थः - प्रसिद्धाब्जे तु मकरन्दो वर्तते - मुखाब्जे तु वार्तामात्रमेव न तु वस्तुतस्तदस्तीति भावः । तदिदं वक्त्रपद्म - मिदानीं अस्मिन् समये प्रारंभकाल इत्यर्थः । अतिरसमतिशयित - माधुर्यगुणयुक्तं रूचिरतरमिति यावत् । किं किमप्यनिर्वाच्यमित्यर्थः - पाकद्रुमस्य बालरसालादिवृक्षस्य - फलम् - अतिरसबालवृक्षफलस्यै - वेत्येतन्निर्देशः - नि. पोतः पाके.ऽर्भको डिम्भ' इत्यमरः । यद्वापाक- द्रुमफलं पचेळिमवुक्षविशेषफलमित्यर्थः - तथाभूतस्यैवात्यन्तरस वत्वादिति भावः। यद्वा किम्पाकमीषत्पक्वं द्रुमफलं तथाभूतस्यैव रुचिविशेषास्पदत्वादिति भावः। अथवा किंपाकाख्यो द्रुमः यस्य फलमापातमधुरं परिणामविषमं च तस्य किं पाकद्रुमस्य - फलं तत्कल्पमित्यर्थः । किंपाकशब्दो निघण्टुन्तरेषु मृग्यः । तस्य । रसाला- दिवृक्षविशेष बाचकत्वे तु कविरेव प्रमाणं । अस्मिन् प्रवर्तमाने काले। व्यतीते अतिक्रान्ते सति विषमिव गरळमिव असुखदं स्वलावण्य- दर्शनजनित सम्मोहेन विवेकभ्रंशे विहिताकरणात्प्रत्यत्राये वाऽत्यन्त- दुःखप्रदमित्यर्थः। भविष्यति । तथा च कालान्तरेऽवश्यं दुःखजन- कत्वात्तादात्तिकसुखलोभेन तरुणीवदनपद्म न विश्वसनीयमिति भावः । शिखरिणीवृत्तम् ।। [किंपाकशब्दश्च विषमुष्टौ निरर्थक चेति शब्दरत्नेकोशे . वर्तते - तस्मात् रसालादिवृक्षान्तःपातित्वं न संभवतीति मन्तव्यम् ]

उन्मीलत्त्रिवळीतरङ्गनिलया प्रोत्तुङ्गपीनस्तन
द्वन्द्वेनोगतचक्रवाकयुगळा वक्त्रान्बुजोद्भासिनी ।