पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
शृङ्गारशतके

जल्पन्ति सार्ध मन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हद्गतं चिन्यन्त्यन्यं प्रियः को नाम योषिताम् ।। ५०

 व्या.---.इतोऽपि न विश्वासार्हाः स्त्रिय इत्याह द्वाभ्यां - जल्पपन्तीति - अन्येन सार्धमेकेन पुरुषेण सह । जल्पन्ति संलपन्ति । सविभ्रमास्सविलासा स्सत्यः । अन्यं पुरुषं । पश्यन्ति । ह्रद्गतं ह्रद - यस्थमन्वं चिन्तयन्ति । अतो योषितां स्त्रीणां। प्रियः प्रियतमः नियत इति शेषः । को नाम - न कोऽपीत्यर्थः ।।

अपसर सखे दूरा दस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्ट श्शक्य चिकित्सितुमौषधै
चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः॥ ५१ ।

 व्या.-अथ योपितस्सर्पस्वरूपेण सखायं भीषयन् दूरादप - सर्पणमुपदिशति . अपसरेति.---हे सखे बन्धो कटाक्षा अपाङ्ग- वीक्षणान्येव - विषानलो विषाग्निज्वाला - यस्य तस्मात् । प्रकृत्या विषमात् स्वभावत एव कुटिलात् 'प्रकृत्यादिभ्यस्तृतीयाचे 'ति तृतीयासमासः । विलासा विभ्रमा-एव फणाः स्फटा-स्ता बिभर्तीति तथोक्ताम् - नि. 'स्फटायां तु फणा द्वयोरि' त्यमरः। तस्माद्योषि- त्सर्पात्कामिनीरूपव्यालाद्दूरादपसर दूरं गच्छ - योषित्सर्पसमा गमं माकुर्वित्यर्थः । अन्यथा तत्समागमेन दंशनप्रसङ्गाच्चिकित्साय.] दुष्करत्वादिति भावः * 'दूरान्तिकार्थेभ्यो द्वितीया चेति चकारा- त्पञ्चमी । तदेव प्रकटयति-इतरेति . इतरफणिना प्रसिद्धसर्पेण । दुष्टः पुमान् । औषधैः मूलिकामणिमन्त्रादिभिरित्यर्थः ; चिकित्सितुं