पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right


वसन्ततिलका॥

कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा सञ्चर मनःपान्थ ! तत्रास्ते स्मरतस्करः ॥  ५३॥

 व्या.----अथ मानसं भीषयति - कामिनीति---पन्थानं गच्छति नित्यमिति पान्थो नित्यपथिकः * 'पन्धो णनित्यमि' ति ण प्रत्ययः पन्थादेशश्च - मन एव पान्थः तस्य संबुद्धिः - हे मन:- पान्थ । कुचावेव पर्वतौ ताभ्यां - दुर्गमे गन्तुमशक्ये । कामिन्याः - कायो देहस्स एव कान्तारमरण्यं - तत्र मा संचर संचार मा कुरु - न प्रवर्तस्व इत्यर्थः । कुतस्तत्र कान्तारे स्मर एव तस्करः चोरः आस्ते वर्तते । स च मानसर्वस्वमपहरिष्यतीति भावः - नि.--'चौरैकागा- रिकस्तेनदस्युतस्करमोषका' इत्यमरः । * तद्वहतोः करपत्योश्चोर-" देवतयोस्सुट्तलोपश्चेति सुडागमतलोपौ ॥     अलंकारस्तु पूर्ववत् ॥

व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिवाहिना वरमहं दष्टो न तच्चक्षुषा ।
दष्टस्सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न वा प्यौषधम् ।।

  व्या...-~अथ त्रिभिः कस्यचिदनुभवमालक्ष्याह - व्यादीर्थे- णेति..-व्यादीर्घेण अत्यायतेन - अन्यत्र कर्णान्तविश्रान्तेन । चलेन चश्चलप्रकृतिना । वक्रगतिना निसर्गकुटिलसंचारेण । समानमेतद्विशे- षणद्वयं । तेजस्विना बलवता अत्युज्ज्वलेन च क प्रशंसायामिनिः ।