पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
शृङ्गारशतके

मिति वचनात् - तत् - गीतं गानं स्फुरति । एतन्नयनानन्दकरं । नृत्तं नाट्यं । स्फुरति । अयं रसनेन्द्रियस्वादातिशयप्रदः रसः अधरामृतं । स्फुरति। असौ घ्राणतर्पणः । परिमळः पद्मिनीजातिनिमित्तगन्ध- विशेषः घनसारगन्धसारादिलेपनप्रयुक्तामोदविशेषो वा। स्फुरति । एष त्वगिन्द्रियसौख्यावह स्स्तनानां स्पर्शः। स्फुरति । * 'स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेणे ति वामनसूत्रे प्रायग्रहणाद्वहुवचनप्रयोगः। इत्येवंप्रकारेण । हतो विनष्टः - परमार्थस्तत्त्वार्थो - येषां तैः - विषय- परतन्त्ररित्यर्थः । अत एव । स्वहितकरणे - धूतैः कितवैः - आत्महिता- चरणतत्परैरिव स्थितैरित्यर्थः । पञ्चभिरिन्द्रियैः श्रोत्रादिभिः । भ्राम्य- माणस्तत्तद्विषयेष्वासज्यमानस्सन्वञ्चितः प्रतारितोऽस्मि । न चैत त्कैतवं प्रागेवाज्ञासिषमित्यर्थः॥   मालिनीवृत्तम्॥

नगम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशादङ्गे कमपि विदधद्धङ्गमसकृत्
स्मरापस्मारोऽयं भ्रमयति दृशै धूर्णयति च ॥

 व्या.--.अथाङ्गनाव्यामोहजनकं मन्मथं दूषयति-नेति..--- मन्त्राणां गम्यो मन्त्रसाध्यो। न भवति । भैषज्यविषयः औषधाद्य- पनेयश्च न भवति - भेषजमेव भैषज्यमिति विग्रहः स्वाथें ष्यञ्प्र- त्ययः - नि.- भैषजौषधभैषज्यानी' त्यमरः । तथा विविधैर्नाना- प्रकारैश्शान्तिकशतैरनेकशान्तिकर्मभिः। प्रध्वंसं विनाशं चापि । न ब्रजति न गच्छति-  " पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते ।