पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
कामिनीगर्हणम्

 तच्छान्तिरौषधैर्दानै जपहोमार्चनादिभिः।।” इति स्मरणात् प्रसिद्धस्तु जपादिभिः शाम्यति न त्वयमिति भावः। किं तु भ्रमा- बेशान्मोहोत्पादनात् । अङ्गे शरीरे। कमप्यनिर्वाच्यं। मङ्गं जाट्यं । यद्वा। भ्रमावेशान्मतिभ्रंशापादनात् । अङ्गे करचरणाद्यवयवष्वित्यर्थः। कमपि भङ्गं विक्षेपादिविकारमसकृद्धहुवारं । विदधत्कुर्वन् * दधाते. र्विपूर्वाच्छतृ प्रत्ययः * 'नाभ्यस्ताच्छतु रिति नुमभावः। स्मरा- पस्मारः स्मरप्रयुक्ताङ्गनाव्यामोहरूपापस्माररोगः । दृशं मदीयदृष्टिं । भ्रमयति व्यत्यासयति - अतस्मिंस्तज्ज्ञानं करोतीत्यर्थः। तथा। चूर्णयति चक्रवद्धामयति ध। किमत्र करोमि कथमयं चिकित्स्य इति भावः । यदाहुर्नैदानिकाः - क्रद्वैर्धातुभिराहते च मनसि प्राणी तमस्संविशन दन्तान् खादति फेनमुद्वमति दोः पादौ क्षिपन् मूढधीः । पश्यन् रूपमसत्क्षितौ निपतति प्रायः करोति क्रिया बीभत्साः स्वयमेव शाम्यति गते वेगे त्वपस्माररुक ।।

व्यतिरेकालंकारः ॥ लक्षणं तूक्तम् ॥   शिखरिणीवृत्तम् ॥

जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गळत्कुष्ठाभिभूताय च ।
यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया
पप्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥ ५७

 व्या.----अथ त्रिभिः पण्याङ्गनागर्हणं कुर्वन्निगमयति.--जात्य- "न्धायेति-जात्यन्धाय जन्मप्रभृत्यवसन्नदृशे पुरुषाय च । दुष्कुलाय च ।