पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
कामिनगिहणम्

'इन्धनं त्वेध इध्ममेधस्समित्स्त्रियामि'त्यमरः। यत्र मदनज्वाला । रूपवेश्यायां। कामिभिः कामुकैः । यौवनानि नूतनवयांसि। * युवादित्वादण्प्रत्ययः । धनानि च। हूयन्ते हव्यरूपेण तत्सात्क्रियन्ते- विलुप्यन्तइत्यर्थः । स्वर्गादिफलकाक्षिभिराहवनीयाग्निज्वालायां ह- चीषीत्रेति भावः ।।  अत्र वेश्यायायारोप्यमाणस्य ज्वालात्वस्य प्रकृतहवनोपयोगि- त्वात्परिणामालंकारः - ' आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम' इति लक्षणात् । स च रूपेन्धनेति रूपकेण संकीर्यते ; रूपकत्वारो- पणस्योपरञ्जकमात्रमेवेति विवेकः॥   अनुष्टुप् ॥

कश्चुम्बति कुलपुरुषो वेश्याधर पल्लवं मनोज्ञमपि ।
चारभटचीरचटेक नटविटनिष्ठीवनशरावम् ॥  ५९

व्या...--क इति। मनोज्ञ सुन्दरमपि । वेश्याया-अधरः पल्लव- मिव इत्युपमितसमासो न त्वधरः पल्लवमिति रूपकं रूपके तूत्तरपद- प्राधान्येन तत्र चुम्बनायोगात् । कः कुलपुरुषः सत्कुलसंभवः पुमान् जातिनीतिकुलाचारधर्मज्ञ इत्यर्थः । चुम्बति न कोऽपीत्यर्थः । कुत एतदित्याशङ्कायामचुम्बनहेतुभूतं विशेषगमाह - जारा गूढपुरुषाः - भटा योधाः - चोरास्तस्कराः - चेटका स्त्रीपुरुषसंधानकुशलाः दौ - त्यकर्मनिरताः - विटाजारा - नटा भूमिकाधरास्तेषां पुरुषापशदानां- निष्ठीवनशरावमुच्छिष्टपात्रं - परमापवित्रमित्यर्थः - चुम्बनसमये तदुच्छिष्टस्य तत्र संक्रमणादिति भावः । अत्र यद्यपि · रतिकाले- मुखं स्त्रीणां शुद्धमाखेटके शुना मि' ति स्मरणात्सुरतसमये पवित्रमेव