पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
सुविरक्तपद्धतिः

क्षामोदरोपरि लसस्त्रिवळीलतानां
दृष्ट्वाऽऽकृति विकृतमेति मनो न येषाम् ॥६१

 व्या.-एवं तावत्कामिनीगहर्णं कृतं-किं विरक्तास्सन्ति वा नवेत्याशङ्कायां सन्त्येवेति मनसि निधाय तत्रापि सुविरक्तदुर्विरक्तभे- देन दॅद्ध्यं प्रतिपादयिष्यन्नादौ सुविरक्तपद्धति वर्णयितुमुपक्रमते - धन्या इत्यादिभिनवभिः - धन्याः इति.-त एव पुरुषा । धन्याः सुकृतशालिनः · सुविरक्ता इति यावत् - नि. 'सुकृतिः पुण्यवान् धन्य' इत्यमरः । ते क इत्याकाङ्क्षाया माह - धवळे पुण्डरीकदल - सदृशे - आयते कर्णान्तविक्षान्ते च - लोचने • यासां तासां । तारु- ण्यदर्पेण यौवनमदोद्रकेण - धनौ निबिदडॅः - पीनौ पीवरौ - पयो - धरौ स्तनौ : यासां तासां। क्षामोदरस्यातिकृशमध्यस्योपर्युपरिष्ट्रा- लल्सन्त्यः प्रकाशमानाः - यानिवळयः - तिस्रश्च ता वळ्यश्च - त्रिव- व्यः के 'दिक्संख्ये संख्यायामि' ति समासः संख्यापूर्वत्वेऽपि सप्तर्षयः' इत्यादिवत् ज्ञेयमित्युक्तं प्राक् । ता लता इव - यासां तासां- तेनैतासां पद्मिनीत्वं सूच्यते । तदुक्तं रतिरहस्ये - 'त्रिवलिललित - मध्याहंसवाणी सुवेषे' ति - सामेत्यत्र के क्षायो मः' इति मत्वं - तथा चेत्थंभूतरूपसंपन्नानां कामिनीना माकृतिमाकाराविशेषं - दृष्ट्वा 'इङ्गितं हृद्तो भावो बहिराकार आकृतिरिति सज्जनः । 'येषां पुरुषाणां मनो विकृति विकारं । तत्परतन्त्रत्वमिति यावत् । नैति न प्राप्नोति । अत एव धन्या इति संबन्धः । एवं निर्विकारचि - तत्त्वं शमसंपन्नानामेव नत्वन्येषामिति भावः । तदुक्तं शमो वैरा - ग्येन निर्विकारचित्तत्व मिति ।। वसन्ततिलकावृत्तम् ।।