पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
शृङ्गारशतके

बाले ! लीलामुकुळितममी मन्थरा दृष्टिपाताः
किंक्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते ।
सम्प्रत्यन्ये वयमुपरतं बाल्यमास्था बनान्ते
क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः॥ ६२

 व्या.-अथ पूर्वोपभुक्तकामिनीसंबोधनव्याजेन सुविरक्त - तां प्रकटयति - बाले लीलामुकुलितमिति. हे बाले मुग्धे । लीलया विलासवैचित्र्या - मुकुळितान्यर्धमीलनानि-यस्मिन् कर्मणि तद्यथा तथा । मन्थरा अलसप्रायाः । अमी। दृष्टिपाता विलोकन- प्रसारा: । किं किमर्थ । क्षिप्यन्ते विकीर्यन्ते-नविक्षेप्या इत्यर्थः । किंतु । विरम विरम अभीक्ष्णं विरम - दृष्टिविक्षपादिति शेषः * आभीक्ष्ण्ये द्विर्भावः* व्यान्ड्परिभ्यो रम' इति परस्मैपदं । कुतः - एषोऽयं ते श्रमः कटाक्षविक्षेपजनितायासो व्यर्थो निरर्थकः - अभिमतफलानिष्पत्तेरिति भावः ; नन्वेतावत्पर्यन्तं मदायत्तचि - त्तेषु युष्मासु कथं फलासिद्धिरित्यत आहुः - संप्रतीदानी । वय - मन्ये परे - त्वद्विलासलालसत्वेन संमोहितास्तदानीतनाः इदानी न भवाम इत्यर्थः । कुतः । बाल्यमुपरतं नष्टं - बाल्यशब्देन यौवनं लक्ष्यते - त्वत्पारतन्त्र्यकारियॉवनमुपरतमित्यर्थः । यद्वा - बाल्यमवि- वेकित्वमुपरतं । कित्वास्था परिशीलनादरः । वनान्ते अरण्यमध्ये - वर्तत इति शेषः - किं तु त्वयि रागं परित्यज्य वैराग्येण वनवास - मपेक्षामह इत्यर्थः । तत्कुतः-मोहः अज्ञान। क्षीणो ध्वस्तः । त्वदा - सङ्गजननहेतुर्निर्मूलोऽभूदित्यर्थः । अतो जगज्जालमशेषप्रपञ्चं । तृणमिव निस्सारमालोकयामः - 'निस्पृहस्य तृणं जगदि' ति लक्ष -