पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
सुविरक्तपद्धतिः

णात्तथा पश्गामः । इदानी झानोदयवशाच मनस्सुखातिरिक्तं सर्व तुच्छमनुसंध्म इत्यर्थः। अतस्त्वया न प्रेक्षणीयमिति भावः ।।

 मन्दाक्रान्तावृनम् - लक्षणमुक्तं - मन्दकान्ता जलधिषड - गैर्मो भनौ तौ गुरूचेत्'।

इयं वाला मां प्रत्यनवरतमिन्दीवरदळ
प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मरकुसुमबाणव्यतिकर
ज्वरज्वाला शान्ता तदपि न वराकी पिरमति ॥ ६३

 व्या..---उक्तमेवार्थं भङ्ग भन्तरेणाह - इयमिति.----इयमेषा बाला - मुग्धा । मां प्रति मामुद्दिश्यानवरतमविच्छिन्नं यथा तथा । इन्दीवरदप्रभाचोमिन्दीवरपत्रकान्तिमोषकं - तत्कल्पमित्यर्थः । चक्षुः। क्षिपति प्रसारयति । अनया बालया । किमभिप्रेतमपेक्षि - तं - तन्नजानामीत्यर्थः । ननु तया त्वत्सङ्गएवापेक्षितस्तत् कुत्तो न जानासीत्याशङ्कायामाह - अस्माकं मोहो गतः उपरतः इदानीमिति शेषः । ननु पूर्वं मामित्येकवचनं प्रयुज्यास्माकमितीदानी बहुवचन - प्रयोगात्कथं सामानाधिकरण्यमुपपद्यत इति चेत्तथाऽपि निवृत्तिमा - गौत्सुकत्वप्रयुक्तात्मसंभावनया बहूकरणं न दोषायेति समाधेयं । यद्वाऽस्मानिति समुदायनिर्देशेन वा न दोषः। तथा स्मर एव-शबरः किरातस्तस्य - बाणव्यतिकरण शरसंपर्केण - यो - ज्वरस्संताप - स्तस्य ज्वाला शान्ता विरतेत्यर्थः । तदपि तथाऽपि । वराकी। न विर मति विरतिं न प्राप्नोति । पूर्व प्राणप्रियतया गरीयस्यां बालायां वरा