पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
११७४
शृङ्गारशतके

कीशब्दप्रयोगेणास्यात्यन्तवैराग्यं सूच्यते * 'जल्पभिक्षकुट्टलुण्टे' त्यादिना पाकन्प्रत्यये पित्यान्डीष्प्रत्यये च वराकोति सिद्धम् ।। शिखरिणी वृत्तम् ।।

रे कन्दर्प करं कदर्थयसि कि कोदण्डटङ्कारितैः
रे कोकिल कोमलैः कलरवैः किंवा वृथा जल्पसि ।
मुग्धे स्रिग्घविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणघ्यानमृतं वर्तते ॥ ६४

व्या.--- संप्रति साटोपपरिवारकंदर्पनिराकरणवचनमाह - किमिति...--रे कंदर्प हे मदन - रे इति नीचसंबोधने - नि. 'नीच संबोधने तु रे' इत्यमरः । एवमुत्तरत्रापि । कोदण्डटंकारितं कोदण्ड- टंकारवत्कृतं-धनुर्गुणटंकारपूर्वकमित्यर्थः । तत्करोती ति णिचिणा- विष्ठवद्भावे विन्मतोर्लुक्।' शरं त्वदीयवाणं । किं किमर्थं । कुस्ति तोऽर्थः कदर्थः * - कोः कत्तत्पुरुषेऽची ति कुशब्दस्य कदादेशः - कदर्थं करोषि कदर्थयसि - व्यर्थयसीत्यथः * धात्वर्थे णिचि सिप् । तथा । रे रे कोकिल हे कलकण्ठ । अत्र असूया सम्मति कोप- कुत्सनभर्त्सनेष्वि' त्यसूयार्थे कोपाद्यर्थे द्विरुक्ति:- स्वरित माम्रेडित' इत्यादिना प्राप्तस्य प्लुतस्य * ' साहस मनिच्छता विभाषा वक्तव्य' इति पाक्षिकः प्रतिषेधः- शास्त्रत्यागस्साहसमिति हरदत्तः । कोम- लंरुचिरं । कलरवं मधुरस्वरं - नि. 'काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे कल' इत्यमरः। किं किमर्थ वा । वृथा व्यर्थ । जल्पसि कूजसि व्याहरसीति यावत् - न व्याहर्तव्यमित्यर्थः - प्रयोजनाभावादिति भावः। तथा मुग्धे हे सुन्दरि । स्निग्धा स्सान्द्रा:-