पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
रुविरक्तपद्धतिः


नि. स्निग्धं तु मसृणे सान्द्रे' इत्यमरः - विदग्धाः विविधविला. . सविशेष विवरणनिपुणाः - 'चारवः इन्दीवशरविन्दादिवत्स्वभावरम - । णीयाः - मधुरास्सुधाधारावन्मनोहराश्च - विशेषणानामपि मिथो - विशेषणविशेष्यभावविवक्षायां विशेषणं विशेष्येण बहुलमि' ति समासः - तै स्तथा । लोलैंर्निसर्गचञ्चलैः। कटाक्षैरपाङ्गावलोकनै रलं - यद्वा स्निग्धैः-

विस्रम्भे परमां काष्टामारूढे दर्शनादिभिः ।
येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते ॥

इत्युक्तलक्षणस्नेहपरिष्कृतैः - तथा - विदग्धैः विरक्तस्यापि मन्मथ- विकारोद्दीपनचतुरैरित्यर्थ:- 'यदर्शने विरक्तोऽपि क्षुभ्यते तत्समन्मथ- मिति लक्षणात्तथा - चारुभिः विषयमात्रविश्रान्तिविरहेण विश्रृ - ङ्खलवृतित्वममन्थरत्वादिगुणशीलत्वस्य विवक्षितत्वात् स्मिताकारैरि- त्यर्थः - तदुक्तं भावप्रकाशे -

अपरिच्छिन्नविषयं मदमन्थमीलितं ।
- स्फुरद्धूपक्षतायुक्तं तत् स्मेरमिति कथ्यते ॥” इति ॥

तथा - मधुरैस्संतापहरैः - 'शीतलीक्रियते तापो येन तन्मधुरं स्मृत मिति लक्षणात् । तथा । लोलैस्सतृष्णै - स्संभोगौत्सुक्यभावना- तत्परैरित्यर्थः । तदुक्तं.---' कटाक्षैर्हासगर्भ॑ैस्तु संभोगौत्सुक्यभावने' ति । कटाक्षः -

" यद्गतागतविश्रान्तिवैचित्र्येण प्रवर्तनं ।
तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ।।