पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
शृङ्गारशतके


इत्युक्तलक्षणै रलं इत्थंभूतकटाक्षा न प्रवर्तनीया इत्यर्थः * अत्र वारणार्थयोगात् पक्षे तृतीया । ननु कुत एवं निराक्रियत इति चेत्त . त्राह - चेतो - मदीयचित्तं कर्तृ। चुम्बितमास्वाद्यमानं - चन्द्र . चुडस्य चन्द्रशेखरस्य • चरणध्यानमेवामृतं - येन तत्तथोक्तं सत् । वर्तते तिष्ठति - स्मरहरचरणध्यानावधानसत्वर संजातपरमवैराग्योल्ल • सितचित्तं मामेते क्षुद्राः किं करिष्यन्तीत्येको भावः - अमृतपान - परितृप्तस्य किमारनाळेनेत्यपरो भावः - ब्रह्मानन्दभरितस्य किं वैष- यिकक्षुद्रानन्देनेत्यपरतरो भावः - नाहमिदानीं पूर्ववद्युष्मत्किंकरः किं तु शंकरकिंकरः - अतोऽसाध्यस्सिसाधयिषतां युष्माकं कोऽयमपस्मार इत्यपरतमो भावः - सर्वथा नास्माकं कामिन्यपेक्षाऽस्तीति परमों भावः ॥    शार्दूलविक्रीडितम् ।।

विरहेऽपि सङ्गतः खलु परस्परं सङ्गतं मनो येषाम् ।
हृदय मपि विघटितं चेत् सङ्गो विरहं विशेषयति ॥ ६५

 व्या.-अथ पञ्चविषयविरक्तिप्रकारमाह - विरह इति.--- येषां स्त्रीपुरुषाणां । मनः परस्परमन्योन्यं । संगतं अन्योन्यानुराग- बद्धमित्यर्थः । तेषां । विरहेऽपि वियोगावस्थायामपि। संगमः खलु समागम एष खलु 'हृदयसंगम एव सुसंगमो न तनुसंगम एव सुसंगम' इति वचनात् - अन्तरङ्गबलीयस्त्वन्यायाच्चेति भावः - मनोनियमने तु सङ्गः विरहहेतुक एव भवतीत्याह - हृदयमपि मनोऽपि । विघट्टितं सम्यक्षतं - वैराग्यप्रवणीकृतं चेत्यर्थः । सङ्ग स्समागमोऽपि विरहं वियोगमेव । विशेषयति विशिष्टं करोति - तमेवापेक्षाविषयं करोतीत्यर्थः - तदानीं तस्यैवाक्षतत्वादिति भावः -