पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
सुविरक्तपद्धतिः

अतः सर्वथा मनोनियमनमावश्यकं - तेन चेन्द्रियप्रवृत्त्युपरमे विषया- णामेकान्ततः पराहतिरिति कृत्वा पञ्चविषयविरक्तिर्नामेयमेवेति निगू- ढाभिसंधिः। परस्परेत्यत्र 'कर्मव्यतिहारे सर्वनाम्नो द्वे भवत' इति वक्तव्यात्परशब्दस्य द्विर्भावः समासवच्च बहुळं' - यथा न समा- सवत्प्रथमैकवचनं तथा पूर्वपदस्येति वक्तव्यं - प्रथमैकवचनम् द्विती- याद्येकवचनान्तत्वमपरपदस्येति ॥   आर्याभेदः ॥

किं गतेन यदि सा न जीवति प्राणिति प्रियतमातथाऽपिकिम्
इत्युदीक्ष्य नयमेधमाळिकां न प्रयाति पथिकः स्वमन्दिरम् ॥

व्या.--अथ कस्यचित्प्रवासिनो विरक्तस्य विचाररूपेण वैराग्यं प्रकटयन्नाह - किमिति.-सा मदीया । प्रियतमा प्रेयसी । न जीवति विरहवेदनया प्राणान्नधारयति यदि । तदा । गतेन गम- नेन भावेक्तः । किं ? न किंचिदपीत्यर्थः । यद्वा गतेन गृहमुपगतेन मयेति शेपः। किम् ? अथ प्राणिति केनचिद्विनोदोपायेन जीवति यदि । तथाऽपि प्राणनेऽपि । गतेन किम् ? उभयथाऽपि गमनं व्यर्थमेवेत्य- र्थः। इति विधायेति शेषः । इहैव गम्यमानार्थत्वादप्रयोगः - प्रयोगे वा पौनरुक्त्यमित्यालंकारिकाः। पन्थानं गच्छत्तीति पथिकः-कश्चि- त्पान्थः - ' पथः ष्कन्' इति ष्कन्प्रत्ययः । नवमेघमालिकां नवीन कादम्बिनी . विरहिनिवहसंहारकारिणीमिति भावः । उदीक्ष्य । मन्दिरं निजगृहं । न प्रयाति वैराग्यनिश्चलचित्तत्वादिति भावः - तदुक्तं -

यद्भावि तद्भवत्येव यदभावि न तद्भवेत् ।
इति निश्चितबुद्धीनां न चिन्ता बाधसे क्वचित् ॥” इति ।