पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
नीतिशतके

या - विवेकभ्रष्टानां विवेकशून्यानां - स्थानभ्रष्टानां च। शतमुखो बहुप्रकारः। विनिपातो भङ्गः - अधोऽध: पतनं च । भवति। विवेक- युक्तानां तु नैवम् । अतो विवेकानभ्रंशितव्यमिति भावः । यतस्सकल- लोकमहिताया अपि गङ्गाया भ्रंशवशादीगवस्थापत्तिः। किमुतान्ये- षामिति विवेकस्यात्यन्तावश्यकत्वमित्यवगन्तव्यम् । पुरा किल तत्र भवान् भगीरथोऽश्वमेधीयाश्वन्वेषणतत्परतया पाताळमुपगतानां कपिलविलोचनानलभस्मीकृतानां सगरकुमाराणामूध्र्वलोकप्राप्त्यर्थं स्वर्लोकात् सुरसरितमवतारयामासति पौराणिकी कथाऽत्रानुसंधया ।।

 अत्रानेकस्मिन्नाधारे क्रमेणैकस्या आधेयभूतायाः गङ्गायाः स्थितिकथनात् पर्यायाख्योऽलंकारः; तदुक्तं विद्यानाथेन.-

"क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि।
एकस्मिन्नथवाऽनेके पर्यायालंकृतिर्मता ॥"

इति शिखरिणीवृत्तं - लक्षणंतूक्तम् ।।

शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो
नागेन्द्रो निशितांकुशेन समदो दण्डेन गौर्गर्दभः ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ ११ ॥

 व्या.---अथान्यादीनां विनिवारणे शाखप्रतिपादितजलादि- रूपहेतून प्रतिपाद्य मौख्यस्य निवारणे शाखाभावं हेत्वभावं ष स्फुटीकुर्वन्नाह.-शक्य इति.-हुतभुक् - हुतं होमद्रव्यं हविः पुरोडाशवपादि - भुनक्तीति हुतमुक् सहविः वैदिकाग्रिः - अत्र तु गृहादि-