पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
शृङ्गारशतके


 रथोद्धतावृत्तम् ।।

विरमत : बुधा योषित्सङ्गात्सुखात्क्षणभङगुरात्
कुरुत करुणामैत्री प्रज्ञा बधूजनसङ्गमम् ।
न खलु नरके ताराकान्तं धनस्तनमण्डलं
शरण अथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ ६७

 व्या.---- अथ बुधानां तत्र वैराग्यमुपदिशति - विरमतेति.--- हे बुधाः विद्वांसः । योषित्सङ्गाद्युवतिसमागमाद्यत्सुखं तस्मात् । कीदृग्विधात् - क्षणभङ्गुरात् क्षणिकान् क्षणिकसुखप्रदयोपित्सङ्गा - दित्यर्थः - भञ्ज भास भिदो धुरजि' नि धुरच्प्रत्ययः जुगु - प्सा विरामेत्यादिना पञ्चमी । विरमत उपरता भवत - तुच्छसु - खदं योषित्समागमं त्यजतेत्यर्थः व्यापरिभ्यो रम' इति परस्मै - पदं । किंतु करूणा दु:खिष्वनुकम्पा - मैत्री पुण्यकृत्सु मित्रता-प्रज्ञा बुद्धिविशेषः सुखित्वनुमोदितेति यावत् - एनेन पापियूपेक्षा च लक्ष्यते-पतासामेवान्तःकरणमलशोधकत्व वित्तपरिकर्माणीति वदन्ति सांख्या: - ता व वधूजनस्तस्य - संगमं परिशीलनतात्पर्यमिति यावत् । कुरुत । एतेनात्यूर्जितसुखं संभवति - किं क्षणिकसुखावल - म्बनेनेति भावः । विपक्षे बाधकमाह - नरके निरये हाराक्रान्तं मुक्ताहारोपशोभितं घनस्तनमण्डलं पटुतरकुचकलशभारो वा । अथेति वाक्यारम्भे । रणती - मणिमेखला मणिखचितरशना - यस्य तत्त थाक्ते - काञ्चीकलापरमणीयमित्यर्थः । श्रोणीबिम्बं नितम्बमण्डलं वा! शरणं रक्षकं न खलु - न भवति हि । करुणादिसमागमस्तु नैवं भवत्यतस्सएवावश्यं स्वीकर्तव्य इति भावः ॥