पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
शृङ्गारशतके

संतर्पणैरपि तैः किमिति संबन्धः । आत्मानन्दानुभववेलायां तेषामति- तुच्छतया प्रतीयमानत्वादिति भावः ॥  शिखरिणी वृत्तम् ।।

यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदिति ।
इदानीमस्माकं पदुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ ६९

व्या.-अथ वेदान्तरीत्या वैराग्यवर्णनं निगमयति-यदेति.- यदा यस्मिन् काले । स्मरः कामएव - तिमिरं तिमिराख्यनेत्ररोगः - अन्धकारश्च गम्यते-नि । 'तिमिरं नेत्ररोगे स्यादन्धकारेऽपि च स्मृत' मित्यभिधानात् - तस्य - संचारेण व्याप्त्या - जनितमुत्पा - दित मज्ञानमविवेकः आसीत् तदा तस्मिन् काले । अशेषं सर्व - मिदं जगत् । नारीमयं योषिद्रूपमिति । दृष्टमाकलितं . अज्ञानवशा- त्तथाऽवबुद्धमित्यर्थः । इदानीमस्मिन् काले तु । पटुतरः अज्ञाननिर - सनदक्षः - अन्यत्र नेत्ररोगनिराकरणसमर्थश्च - यः विवेकस्तत्त्वज्ञान- मेवाञ्जनं - नेत्रकल्याणाख्यसिद्धाञ्जनं - तज्जुषां प्राप्तवता मस्माकं संबन्धिनी । दृष्ठिर्मतिः • दृक्च । असमा समा संपद्यमाना समी- भूता * अभूततद्भावे च्विः - निजप्रकृतिमापन्ना सतीत्यर्थः । त्रयाणां भुवनानां समाहारस्त्रिभुवनं के ' तद्धितार्थे' त्यादिना समा; सः - पात्राद्यन्तत्वान्न स्त्रीत्वं। बह्म ब्रह्ममयं मनुते - ज्ञानोदयवश द्रक्षस्वरूपमवबुध्यते । यथाऽञ्जनेन नेत्ररोगनिवृत्तौ घटाद्यर्थतत्वज्ञानं जायते - तथा तत्त्वज्ञानेन कामान्धकारप्रयुक्ताज्ञानावरणापाये पर- वस्तुसाक्षात्कारो भवति - ततस्सम्यग्दृष्टया सर्वमिदं ब्रह्माकारतया.