पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
शृङ्गारशतके

जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहार्तुं समर्थः ।।७१

 व्या.---अथैषां दुर्विरक्तवाभिद्योतकानीदृशान्येव वचना - । न्याह-वचसीति.-श्रुतिमुखराण्यश्रान्तश्रुतिपाठतत्पराणि मुखानि - येषां तेषाम् - निरन्तरवेदाभ्यसनव्यसनरसनानां वेदान्तपारगाणाम - पीत्यर्थः । पण्डितानां विवकिना! वचसि केवलं वाङ्मात्र एव । सङ्ग- त्यागं वधूसंसर्गत्याग मुद्दिश्य । वार्ता गाथा भवति । नत्वन्तः - करण इति भावः । कुतः - अरुणरत्नग्रन्थिः पद्मरागमणिखचित; काञ्चयेव कलापो भूषणं यस्य तत्तथोक्तं - नि. 'शोणरत्नं लोहि - तकं पद्मरागोऽथ मौक्तिकं ' कलापो भूषणे बह' इति चोभयत्रा • प्यमरः । कुवलयनयनानामिन्दीवराक्षीणां । जघनंकटिपुरोभागं विहातुं त्यक्तुं कस्समर्थः ? न कोऽपीत्यर्थः । प्रायश ईदृशान्येव दुर्विरक्तानां वचनानीति भावः ॥   मालिनी ॥

स्वपरप्रतारकोऽसौ निन्दति योऽळीकपण्डितो युवतीः ।।
यस्मात्तपसोऽपि फल स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ ७२

 व्या.----स इति..----सोऽसावळीकपण्डितः अनृतभाषी - नि. अलीकं त्वप्रियेऽनृत' इत्यमरः । परप्रतारको लोकव़ञ्चकः । कोऽसावित्यत आह-य: अळीकपण्डितो । युवतीः तरुणी: * 'यूनस्तिरिति प्रत्ययः । निन्दति गर्हयति । स इति संबन्धः । नत्र निस्सङ्गत्वाद्युवतिनिन्दाकरणे कथं प्रतारकत्वमत आह-यस्मात्कारणा- त्तपसश्चान्द्रायणादेः व्रतोपवासादिरूपस्य वा । फलं स्वर्गः । तत्र स्वर्गेऽपि चाप्सरस उर्वशीप्रभृतय स्तत्रापि तत्सङ्गम एवेत्यर्थः -