पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
शृङ्गारशतके


त्यर्थः । तावदिति संबन्धः । तदनन्तरं को वा महत्त्वादिगुणविशिष्ट इति भावः -

• अरविन्दशोकं च चूतं च नवमल्लिका।
नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥' इत्यमरः ।।
अत्र मदने अग्नित्वरूपणा देकदेशवर्ति रूपकम् ।। अनुष्टुप ।।

शास्त्रज्ञोऽपि प्रगुणितनयोप्यात्तबोधोऽपि बाढं
संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम् ।
येनेतस्मिन्निरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ ७७

 व्या.---अथ सांसारिकस्य सद्गतिः दुर्लभेति सहेतुकमाह - शास्त्रज्ञ इति..-शास्त्रज्ञः सकलशास्वरहस्याभिज्ञोऽपि * ' आतोs नुपसर्गेकः' इति कप्रत्ययः । तत्रापि प्रगुणितः प्रकर्षेणावृत्तिविष - यीकृतः - नयो नीतिशास्त्रं - येन स तथोक्तोऽपि - फलवदर्थावबोध - नपर्यन्तं सम्यकपरिशीलितनीतिशास्त्रोऽपीत्यर्थः - प्रगुणशब्दात् * 'तत्करोती ति ण्यन्तात्कर्मणि क्तःणा विध्वद्भावे विन्मतो र्लुक्- नि. 'गुणः स्याद्वृशिशब्दाख्ये ज्येन्द्रियेमुख्यतन्तुषु' इति वैज - यन्ती। तथा बाढं दृढ मात्तबोध उत्पन्नज्ञानोऽपि पुमानस्मिन् परिवर्तमाने । संसारे सद्गतीनां ।भाजनं पात्रम् -योग्य इति यावत् । विरलो मृग्यो। भवति - स्वर्गादिसद्गतिगामी यः कश्चिदेव भवति । न तु बहुळ इत्यर्थः । कुतः - येन कारणेन । एतस्मिन् संसारे । वामा क्षीणां मनोहरनयनानां' बहुव्रीहौ' इत्यादिना पचिषित्त्वात् ङीप्। कुटिळा वक्रा भूर्लतेय भ्रूलता भ्रूवल्ली । कु़ञ्चिकेव विष्कम्भविघटनसा