पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
दुर्विरक्तपद्धतिः


धनवक्राग्रायोमयशलाकेव । निरयनगरस्य यमपुरस्य द्वारम् - लक्ष - णया द्वारपिधानवाटविष्कम्भमित्यर्थः - द्वारशब्देन कवाटस्य तेन च ,, तद्विष्कम्भस्य च लक्षितत्वात् । उद्बाटयन्ती विधट्टयन्ती - व्यामोहो- त्पादनेन दुर्गतौ प्रवेशयन्तीत्यर्थः । भवति खलु - विरक्त इति संब- न्धः । स्त्रीसङ्गिनां कुतस्सद्गतिरिति भावः ॥ उपमालङ्कारः॥ मन्दाक्रा- न्तावृत्तम् ॥

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी मायाक्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधाक्षामो जीर्णः पिठरककपालार्पितगळः
शुनी इन्वेति श्वा हतमपिच न्त्येव बदनः ॥७८

 व्या... अथद्वाभ्यां मन्मथस्य चरित्रवैचित्र्यमाह - कृश इति..-कृशः पिण्डालाभादस्थिचर्मावशिष्टदेहः। काणोऽन्धकः - यद्वा एकाक्षः। खञ्जः पादविकल: - अकार्यकरणेन लगुडप्रहाराद्भग्न- पाद इत्यर्थः । तथा श्रवणरहितः समूलं भिन्नकर्णः पुच्छेन विकल छिन्नलाङ्गूलः के येनाङ्गविकार' इति समासः। व्रणी सर्वाङ्गक्ष- तिमान् । अतः पूयेन क्लिन्नः आर्द्रः। कृमीणां व्रणोत्पन्नापादतुच्छ- जन्तूनां - कुलशतैः अनेककृमिपरम्पराभिरित्यर्थः । आवृता व्याप्ता - तनुर्यस्य स तथोक्तः। क्षुधा बुभुक्षया । क्षामः परिक्षीणः ॐ क्षायो भः' इति मत्वम्। जीर्णः जरया शिथिलावयः। पिठरककपालेन घटमुखक्लयेनार्पितगळ आसञ्जितकण्ठनालः शुनको हि घटमुखे खशिरो निक्षिप्य अन्न भक्षयति-ततस्तावतैव परिपुष्टत्वेनाक्रष्ट्र मश- क्यत्वाद्भुवि विघट्टनेनाधः कपालापाये तन्मुखकपालेनासञ्जितकण्ठो