पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८९
दुर्विरक्तपद्धतिः


नीचैः कृत्वा। केचिन्नग्नीकृताः दिगम्बरीकृताः - नि.-' नग्नोऽवा- सादिगम्बरः' इत्यमरः के अभूततद्भावे च्विः अस्य च्वौ" इति दीर्घः * ऊर्यादिच्चिडाचश्च' इति गतिसंज्ञायां * 'कुगति प्रादयः' इति समासः। केचिन्मुण्डिताः परमहंसीकृताः - न तु सौभाग्यसंपन्नीकृता इत्यर्थः । अतः कुसुमेषुमुद्रारूपाः स्त्रियो न परिहर्तव्या इति भावः : यथालोके राजानस्तीक्ष्णदण्डा निजाज्ञोल्ल- ङ्घनापराधिजनान् कांश्चित्सर्वस्वापहारेण वस्त्रहीनान कुर्वन्ति - कां- श्चित्सर्वतो मुण्डितशिरस्कान् - कांश्चिदर्धमुण्डितमुण्डान् - कांश्चि- जटाधारिणः - कांश्चिकपालभिक्षुकांश्च कुर्वन्ति - तद्वत्रापि इति ध्वनिः ॥  अत्र वैराग्यकृतनग्नत्वादेः कुसुमेषुकृतत्वोत्प्रेक्षणादुत्प्रेक्षालं.. कारः - सा च नूनमित्यादि व्यञ्जकाप्रयोगात् गम्या ॥ शार्दूल. विक्रीडितम् ॥

विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशना
स्तेऽपिस्त्रीमुखपङ्कजे सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयो दधियुतं ये भुञ्जते मानवा
स्तेषामिन्द्रयनिग्रहो यदि भवे द्विन्ध्यः प्लवेत्सागरे । ८०

 व्या.---किं बहुना महर्षयोऽपीन्द्रियनिग्रहसमर्था न जाता इत्युपसंहरति • विश्वामित्रेति.-~-वाताम्बुपर्णान्येवाशनं येषां ते तथोक्ताः शरीरयात्रामात्रोपयोगिवायूदकपरिणतपर्णाहारा एव - न त्विन्द्रियतुष्टिकरमृष्टान्नभोजना इत्यर्थः । विश्वामित्रपराशरप्रभृतयो - विश्वस्य मित्रं विश्वामित्रो गाधिनन्दनः - 'मित्रे चर्षौ' इति दीर्घः-