पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
ऋतुवर्जनपद्धतिः


आवासः किलकिंचितस्य दयिताः पार्श्वे विलासालसा:
कर्णे कोकिलकामिनीकलरवाः स्मरो लतामण्टयः ।
गोष्ठी सत्कविभिः समं कतिपयैः मुग्धाः सितांशोः कराः
केषांचित्सुखयन्त्यवेहि हृदये चैत्रे विचित्राः क्षपाः ॥ ८३

 व्या.---विरहिणामेव कृछ्रं । नत्वन्येषामित्याह - आवास इति - पार्श्वे परिसरे - किलकिञ्चितस्य रोषाश्रुहर्षभीत्यादेस्सङ्करः किलकिश्चितम्' इत्युक्तलक्षण शृङ्गारचेष्टाविशेषस्यावासो निवास - भूतः - अत्राधारमात्रविवक्षयैकवचनग्रहणमिति विवेकः । तथा विलासालसाः लीलामन्थराः - कटाक्षभुजाक्षेपादिविविधविभ्रमाचर- णतत्परा इत्यर्थः - एतेनैतासां स्मरमन्दीकृतव्रीडत्वात्प्रागल्भ्यं सूच्यते। दयिताः प्रियतमाश्च। कर्णे कर्णयोरित्यर्थः * स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण 'इति वामनसूत्रे प्रायग्रहणादेकवचन- प्रयोगः। कोकिलकामिनीनां कलकण्ठाङ्गनानां - कलरवः अव्यक्त- मधुरस्वरश्च - स्मरः ईषद्विकसितकुसुम इत्यर्थः - अत्र कुसुमधर्भ: कुसुमिते उपचर्यते * : ष्मिड् ईषद्धसने' इति धातोः * - 'नमि कम्पि' इत्यादिना रप्रत्ययः । लतामण्टपो लतागृहं च । कतिपयैः कैश्चिदेव - अन्यथा रसाभासात् । सत्कविमिस्सरसविचित्रचारूप्रब- न्धप्रणयनचतुरतरकवीश्वरैः समं । गोष्टीप्रसङ्गश्च । मुग्धा मनो - हरा स्सितांशोः कराश्चन्द्रकिरणाश्च । विचित्रा नानाविधाः । स्रजः पुष्पमालिकाश्च । अत्र अस्मिन् । चैत्रे वसन्ते । केषां चित् अन्येषामे - वेत्यर्थः । हृदयं सुखयन्ति रञ्जयन्ति - न सर्वेषामित्यर्थः । ईदृक्सौ- भाग्यसंपन्नानां विरळत्वादिति भावः || 13