पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
ऋतुवर्णनपद्धतिः


स्तनभरश्च - यस्याः सा तथोक्ता। नि स्तनाम्भोदौ पयोधरौं'। इति वैजयन्ती । अत एव तरुण्या बेष इव वेषो यस्याः सा कामिनीव मोहनकारिणीत्यर्थः । प्रावृड् वर्षाः कस्य पुंसो। हर्षं संभोगौत्सुक्यं । न तनुते। सर्वस्यापि तनुत एवेत्यर्थः ॥ श्लेषानुप्राणितेयमुपमा ।।

वियदुपचितमेषं भूगयः कन्दळिन्यो
नवकुटजकदम्बामोदिनो गंधवाहाः ।
शिखिकूलकलकेकारावरम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ।। ९१

 व्या.-वियदिति.---उपचिताः परिचिता - मेघा यस्मिन् - तत्तथोक्तम् । घनाघनसंचारवदित्यर्थः । वियत् आकाशं च । कन्द - लानि अङ्कुराणि आसां सन्तीति कन्दलिन्यो । भूमयो भूप्रदेशाश्च । नवो नूतनः -कुटजानां गिरिमल्लिकानां - कदम्बानां नीपकुमुमानां च - आमोदो गन्धविशेष एषामस्तीति तथोक्ता गन्धवाहाः उद्यान- पवनाश्व नि. 'कुटजो गिरिमल्लिका' इत्यमरः । के मूर्ध्नि कायन्ति धनयन्ति केका मयूरवाण्यः- नि. 'केका बाणी मयूरस्य' इत्यमरः - शिखिकुलानां मयूरनिकराणां - या: कलकेकारावा अध्यक्तमधुरकेका स्वरास्तैरम्या मनोहरा ! वनान्ताश्च केळीवनमध्यप्रदेशाश्च । सुखिनं दुःखिनं वा। सर्वम् अशेषं जनम् । उत्कण्ठयन्ति संभोगौत्सुक्यवन्तं कुर्वन्तीत्यर्थः - उद्दीपकत्वादिति भावः । उत्कण्ठाशब्दात् के तत्क- रोति -' इति ण्यन्ताल्लट् । मालिनी ॥

उपरि घनं घनपटलं तिर्यगिरयोऽपि नर्तितमयुराः ।
क्षितिरपि कन्दळधवळा दृष्टिं पथिकः क्व पातयति ॥ ९२