पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
शृङ्गारशतके


सितं स्फुरणं (कर्तृ) स्वैरसुदृशां अभिसारिकाणां। पथि प्रियगृह . मार्गे । मुदं मार्गप्रदर्शकत्वासंतोषं। म्लानिं आत्मप्रकाशनहेतुत्वात् म्लानिं च ग्लैम्लैहर्षक्षये' इत्यस्माद्धातोः 'वीज्याज्वरिभ्यो निः' । इत्यौणादिको निप्रत्ययः । प्रथयति प्रकटयति करोतीत्यर्थः । 'कान्ता- भिसरणोद्युक्ता स्मरार्ता साभिसारिका'। इति लक्षणात्। कान्तमुद्दिश्य निगूढमभिसरणशीलानां स्त्रीणामुपयोगानुपयोगाभ्यां हर्षाहर्षहेतु- त्वादिति भावः - नि.-'कान्तार्थिनी तु या याति संकेतं साऽभि सारिका' इत्यमरः ।। वृत्तं पूर्ववत् ।।

आसारेण न हर्म्य॑तः प्रियतमैर्यातुं वहिश्शक्यते
शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्गयते ।
जाताः शीकरशीतलाश्च मरुतो रत्यन्तखेदाच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥ ९५

 व्या.-----आसारेणेति.----प्रियतमै र्वल्लभैरासारेण धारासंपा- तेन हेतुना - नि.-'धारा संपात आसारः। इत्यमरः। हर्म्यतः प्रासादात् - 'धामतः' इति पाठे गृहात् - उभयत्रापि * पञ्चम्या- स्तसिल् - अपपरिबहिरि'त्यादिना समासविधानज्ञापकात् बहि- र्योगे पञ्चमी। बहिर्यातुं। न शक्यते न समर्थ्यते - 'शकुशक्तौ'- भावे लट् - शकधृष' इत्यादिना तुमुन् प्रत्ययः। तथा आयतदृशा दीर्घदृशा तरुण्या। शीतेन - यदुत्कम्पो गात्रवेपथुस्तन्निमित्तम् - तन्निवारणार्थमित्यर्थः। गाढमतिदृढ़ं। समालिङ्गयते परिरभ्यते - पूर्ववल्लट्। तथा। शीकरैरम्बुकणैः - शीतला: शिशिरा • नि.-